________________
336 भनुमानौविष्यम्
न्यायमञ्जरी सत्तायां च साध्यायां भावधर्मस्य हेतोरसिद्धत्वम् , अभाव. धर्मस्य विरुद्धत्वम्, उभयधर्मस्यानैकान्तिकत्वमिति कथं साधयितुं शक्यते? तदुक्तम्.. 'नासिद्धे भावधर्मोऽस्ति, व्यभिचार्युभयाश्रयः।
धर्मो विरुद्धोऽभावस्य, सा सत्ता साध्यते कथम् ? ' इति ॥
न च कारणमात्रस्य हेतुत्वं युक्तम्, विना च प्रतिबन्धादिना व्यभिचारसम्भवात्। कारणविशेषश्च न कश्चिद्विपश्चिताऽपि निश्चेतुं शक्यः। चलदचलविपुलवपुषामुत्पलदलमलीमसत्विषामपि पयोमुचाममुक्तपयसामुपरमदर्शनात् ॥
यदि त्वन्त्यदशावर्ति कारणं लिङ्गमिष्यते। व्याप्तिस्मरणवेलायां कार्यप्रत्यक्षता भवेत् ॥ २४२ ॥'
[सौगतमते कारणात्कार्यानुमानसंभवः] ननु ! सौगतैरपि कारणात् कार्यानुमानमङ्गीकृतमेव । 'हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते। ' अर्थान्तरानपेक्षित्वात् स खभावोऽनुवर्णितः॥ इति (प्र.वा. 1-8)॥
अथ हेतुदोषानाह-सत्तायामित्यादि । सत्तायाः साध्यत्वेनासिद्धत्वात् सत्तायाः हेतोरपि सत्तारूपत्वात् स्वरूपासिद्धिः। . अभावधर्मत्वे तु साध्याभावव्याप्तत्वाद्विरुद्धः । उभयधर्मत्वे साधारणानैकान्त्यम् ॥
हेतुभूतं कारणमपि न निर्वक्तुं शक्यमित्याह-न चेति। न हि मृत्पिण्डवत्सु देशेषु सर्वत्र घटस्योत्पत्तिः संभाव्यते। निश्चेतुमशक्यत्व वाई-- चलदिति। चलदचलवत् विपुलपरिणामवतां नीलरोचिषामपि मेघानां अमुक्तपयसां सतामेवोपरमदर्शनात् । उपरमः--अवर्षणम्। तथा ह्याभाणकोऽपि–'अश्वप्लुतं वासवर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् । अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः' इति ॥
ननु कार्याव्यवहितप्राक्काले कारणं यादृग्रूपविशिष्टं स्यात् , तापविशिष्टस्यैव कारणस्य कार्यानुमापकत्वमिष्टमिति चेत्-तत्राह--यदि विति । प्रत्यक्षता भवेत् -तदानीं कार्यस्योत्पन्नत्वात् ॥
समग्रेणेति । समग्रात् खलु हेतोरनन्तरस्मिन्नेव क्षणे कार्योऽवर्जनीयः, कारणान्तरानपेक्षणात् । कारणान्तरापेक्षायां हि समग्रत्वमेव न स्यात् ॥