________________
मासिकम् २] - पूर्ववदनुमानम्
335 विभागवचनात्सिद्धं त्रैविध्यं स्वगिरा भवेत् । तथा च शब्दसिद्धान्तच्छलेष्वेवमदीशत् ॥ २४१॥
___[पूर्ववदनुमानम्] पूर्ववदिति। यत्र कारणेन कार्यमनुमीयते-यथा जलधरोन्नत्या भविष्यति वृष्टिरिति ॥
[पूर्ववत् पदस्य कारणपरत्वाक्षेपः] अत्र चोदयर्या त-पूर्व हि कारणमुच्यते । पूर्वमस्यास्तीति पूर्ववत् कार्य 'वक्तुं युक्तम् । तेन कार्यात् कारणानुमानमिहोदाहर्तव्यम, न कारणात् कार्यानुमानम् ॥
कारणेन कार्यमनुमातुमप्यशक्यम् ] न च कारणेन कार्यमनुमातुमपि पार्यते । कार्यस्य तावत् पक्षत्वमयुक्तम् ; सिद्धयतिद्धिविकल्पानुवृत्तेः। सिद्ध हि कार्ये किमन्यदनुमेयम् ! असिद्ध खपुष्पवन्न पक्षत्वम् ॥ __अपि च अस्ति-कार्य-कारणस्यास्तित्वात् इति व्यधिकरणो हेतुः; अनित्यः शब्दः काकस्य काादितिवत् ॥ उक्ता हार्द भावमाह--विभागेति। विभागवचनात् सिद्धमेव त्रैविध्यं स्वगिरा कण्ठत उक्तं भवेत्-अन्यथा 'इतोऽपि विभागान्तरं स्याद्वा' इति संशयानतिवृत्तः। तथैव सूत्रकारशैल्यपि दृश्यते-'आप्तोपदेश: शब्दः' ‘स द्विविधः दृष्टादृष्टार्थत्वात् ', 'तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः' 'स च तुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ', 'वचनविघातः अर्थविकल्पोत्पत्त्या छलम्' 'तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं चेति' इत्यादौ नियमार्थ त्रिविधादिग्रहणम् ॥
मेघस्यौनत्यं नाम कार्याव्यवहितप्राक्कालीनावस्थाविशेष एव ॥ पूर्व- पूर्वपदार्थः । कार्य अनन्तरं, कारणं हि पूर्व भवतीति भाव : ॥
‘भत्र कारणस्य सत्त्वात् कार्येणापि भाव्य ' इति खलु वक्तव्यम् । अत: कार्य-अस्तित्ववत् कारणस्य सत्त्वादिति वक्तव्यं, तदपि न संभवतीत्याह-- अपि चेति ॥