________________
334 अनुमानत्रैविध्यम्
[न्यायमचरी त्रिविधग्रहणं तस्य विभागप्रतिपादकम् । भेदाः पूर्ववदित्यादिग्रन्थेन कथितास्त्रयः॥ २३९ ॥ तत्पूर्वक'पदोदीत निर्मलन्यायलक्षणः।
परिम्लानादरोऽन्यत्र सूत्रकृद्वाक्यलाघवे ॥२४० ॥ 'त्रिविधं' इत्युक्तिस्तदा विरुद्धयेतैव, पञ्चविधत्वात् हेतोः। विधाशब्दश्व विभाग एव स्वरसः। पूर्वोक्तदोषस्तु वर्तत एवेदानीमपि इत्युपेक्षितम् ॥
एवं लक्षणपरं ' तत्पूर्वक 'पदं ब्याख्यातम् । अथ शिष्टे सूत्रे 'त्रिविध'. पदं विभागप्रतिज्ञापरं, शिष्टं विभागपरमित्याचष्टे-त्रिविधेति । त्रयः भेदाः कथिता इत्यन्वयः॥
अत्र भाष्य -- 'विभागवचनादेव त्रिविधमिति सिद्धे त्रिविधवचनं महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात् परं वाक्यलाघवं मन्वानस्यान्यस्मिन् वाक्यलाघवेऽनादरः। तथा चायमित्थंभूतेन वाक्यविकल्पेन प्रवृत्तः सिद्धान्ते छले शब्दादिषु च बहुलं समाचारः शास्त्र इति । अयमर्थः–'पूर्ववत् शेषवत् सामान्यतो दृष्टं च' इति विभागवाक्यादेव 'अनुमानं त्रिविधं' इति स्पष्टमवगम्यमाने 'त्रिविधं' इति संख्यावाचकशब्दग्रहणपूर्वकमभिधानं किमर्थम् ? इति चेत्--अतिक्लिष्टस्यानुमानलक्षणस्य 'तत्पूर्वकं' इति सूक्ष्मपदेन लक्षणात् तत्स्मरणजहर्षवशात् इदमत्यल्पं गौरवं गौरवत्वेन न मेने सूत्रकारः। एतादृशेन वाक्यविन्यासेनैवास्मिन् शास्त्रे सिद्धान्तादिलक्षणपरेषु समाचार:-विचाररीति: बहुलं प्रवृत्तो दृश्यते इति । एतत्सर्वमभिप्रेत्याह--तत्पूर्वकेत्यादि । 'तत्पूर्षक' इत्येकेनैव पदेन कथितं निर्मलं-निर्दोष यत् महतो न्यायस्य-अनुमानाख्यस्य लक्षणं येन, स: सूत्रकृत् अन्यस्मिन् वाक्यलाघवे परिम्लप्नादरः इत्यर्थः॥
एतेन - पूर्ववदादिवाक्यमभ्युपेत्य त्रिविधपदपरित्यागलाघवापेक्षया त्रिविधपदेनैव विवक्षितार्थलाभे पूर्ववदादिपदपरित्यागलाघवस्य महत्त्वात्, तत्परं भाष्यं ब्याचल्युर्वाचस्पतिमिश्रा:-'त्रिविधमिति विभागवचनादेव त्रिविधे पूर्ववदादौ सिद्धे किमर्थ पूर्ववदाद्युपादानम्' इति तदेतद्न्थकारेणोपेक्षितं मन्तव्यम्। 'त्रिविधं' इत्येतावन्मात्रात् नार्थपूर्तिर्भवेत्-विभागजिज्ञासाया भशान्तत्वात् । नापि 'त्रिविधं ' इतिपदं विभागवाक्यं, किन्तु तत्प्रतिज्ञापरम् । मतो नेदं भाष्यानुगुणमपि-इत्यादिहेतुरत्रोद्यः। एवं वैभवेन प्रवृत्तं भाष्यं
1 दादीत-क.
णा:-क.