________________
'आह्निकम् २]
सौत्रानुमानलक्षणस्य निर्दुष्टत्वसमर्थनम्
333
[सूत्रादेव हेतोस्विविधत्वलाभः] ननु ! पूर्ववदादिभिः शब्दैः कार्यादिभेदवर्णनं ज्ञास्यामः। पक्षधर्मादिरूपत्रयं तु कथभेभिः शब्दैः प्रतिपाद्यत इति। अत्राहु:वादादिकथात्रयेऽपि पूर्वमुपादीयमानत्वात् पक्षः पूर्वशब्देनोच्यते; सोऽस्यास्त्याश्रयत्वेनेति पूर्ववत् लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति। पक्षे उपयुक्ते सति शेषः सपक्षो भवति। सोऽस्यास्त्याश्रयत्वेनेति शेषवत् । एवमनेन रूपक्षे वृत्तिरुक्ता भवति । सामान्यतोदृष्टमित्यनेन विपक्षात् व्यावृत्तं लिङ्गमुच्यते। कथम् ? अकारप्रश्लषात् सामान्यतः अदृष्टमिति। तिष्ठतु तावद्विशेषः, सामान्यतोऽपि न दृष्टम् । केति ? पक्षपक्षयोवृत्तरुक्तत्वात् परिशेपात् विपक्षे सामान्यतोऽपि न दृष्टमित्यवतिष्ठते । इत्थं त्रिरूपं लिङ्गं पभिः शब्दैरुक्तं भवति । तदालम्बनं ज्ञानमनुमानम् ॥
सूत्रस्य सर्वस्यापि लक्षणपरत्वं न युक्तम्] तदेवं लक्षणे कश्चित् सर्व सूत्रमयोजयत् । . एवं तु ख्यापितं न स्यात् सूत्रकारस्य कौशलम् ॥ २३८ ॥
किञ्च पश्चलक्षणामिह शास्त्रे अभ्युपगम्यते इति त्रिरूपे तस्मिन् वर्ण्यमाने कालात्ययापदिष्टप्रकरणसमयोः प्रसङ्गो न व्यावर्तत इति । तस्मात् तत्पूर्वकपदमेव लक्षणप्रतिपादनार्थमनवद्यम् ॥
शास्याम इति। पूर्ववदिति कारणेन कार्यानुमानं, शेषवदिति कार्येण कारणानुमान, एवं कार्यकारणभावरहितस्थले रूपेण रसानुमानादि सामान्यतोदृष्टं—इत्यादिरीत्या भाष्यादिषु तथा वर्णितम् । कथात्रय इति । वादः, जल्पः, वितण्डा चेति कथा त्रिविधा वक्ष्यते। उपयुक्ते-निरूपिते। उक्तादन्यः खलु शेषः । तदर्थलाभप्रकारमाह-तिष्ठत्वित्यादि । विशेषः ... पक्षवृत्तित्वादिः ॥
सर्व सूत्र लक्षणे अयोजयत् इत्यन्वयः। एवं त्वित्यादि। अनुमानप्रभेदादीनां वक्तव्ये, उपमानादिव्यावृत्तेः अस्मदुक्कदिशा सुलभत्वे च तदर्थ एतावत्पदप्रयोग: सूत्रकारस्य न युक्त इत्यर्थः ।।
न व्यावर्तत इति। यद्यपि वाचस्पतिमित्रैः-तात्पर्यटीकायां विपक्षम्यतिरेकात् असत्पतिपक्षत्वाबाधितविषयत्वयोः संग्रहो वर्णितः, भथापि