________________
332 अनुमानस्य प्रत्यक्षपूर्वकस्वनिरूपणम् न्यायमअरी .. यतश्शब्दं वाऽध्याहरिष्यामः--प्रत्यक्षफलपूर्वकं परोक्षार्थ. प्रतिपत्तिरूपं फलं यतो भवति तदनुमानमिति ॥
['तत्पूर्वकं' इत्येतावदेव लक्षणपरम् ] अत्र हि प्रथमं लिङ्गदर्शनं, ततः प्रतिबन्धस्मरणं, ततः केषाचिन्मते परामर्शज्ञानं, ततः साध्यार्थप्रतीतिः, ततः प्रत्यक्षलक्षणावसरवर्णितेन क्रमेण हेयादिज्ञानमितीयति प्रतीतिकलापे यथोपपत्ति कार्यकारणभावो वक्तव्य इत्येवं तत्पूर्वकपदमेव केवलं अनुमानलक्षणक्षममिति गुरवो वर्णयाञ्चक्रुः॥
. सर्व सूत्रं लक्षणपरमिति अन्ये] अन्ये पुनः उपमानाद्यतिव्याप्तिव्युदासाय त्रिविधग्रहणं व्याख्यातवन्तः। 'तत्पूर्वकमनुमानम्' इत्युच्यमाने सति उपमानादौ प्रसङ्ग इति त्रिविधग्रहणम् ॥
लिङ्गं वक्ष्यमाणकार्यादिभेदाद्वा त्रिविधं, पक्षधर्मादिरूपत्रययोगाद्वा त्रिरूपं त्रिविधमुच्यते। लिङ्गे च त्रिविधे सति तदालम्बन ज्ञानमुपचारात् त्रिविधमभिधीयते । तेन प्रत्यक्षपूर्वकं त्रिविधलिङ्गालम्बनज्ञातमनुमानमित्युक्ते सति नातिव्याप्तिः ॥ . .
यान्तस्वेऽनुमानपदमेवानुमितिपरमिति सामानाधिकरण्यमुपपद्यत इति ॥
अनुमानपदस्य करणे प्रसिद्धयनुरोधादाह-यत इति ॥ _ 'लिङ्गविषयं ज्ञानं, ज्ञानविषयीकृतं वा लिङ्गं प्रमाणं' (पु. 282) इति स्वेन कथनात् -केषाञ्चित् इति । गुरवः-~भाष्यकारादयः ॥
प्रसङ्ग:--अतिप्रसङ्गः। तेषामपि सादृश्यदर्शनमूलकत्वादित्यर्थः ॥
कार्यादीति। कार्यानुमानं, कारणानुमानं, सामान्यतोदृष्टानुमानमित्यर्थः। पक्षधर्मेत्यादि । पक्षे सत्वं, सपक्षे सत्त्वं, विपक्षेऽसत्त्वमित्यर्थः । नन्वनेन लिङ्गे विध्य उक्तं, न स्वनुमाने - इति चेदाह--लिङ्गे चेति। तदालम्बनं-तद्विषयकम् । ज्ञायमानलिङ्गस्यानुमानत्वे तु नायं क्लेशः । नातिव्याप्तिः। उपमानस्य लिङ्गाविषयकत्वात् ॥