________________
आह्निकम् २]
सौत्रानुमानलक्षणस्य निर्दुष्टत्वसमर्थनम्
331
कल्पनीयः । फलावमर्शे तु प्रत्यक्षफलपूर्वकमनुमान' फलं भवेत्, नानुमानमिति' तत्पूर्वकशब्दस्य फलवचनस्यानुमानशब्देन करणवाचिना सह सामानाधिकरण्यं न स्यात् – तत्पूर्वकमनुमानमिति । प्रत्यक्षफलेन हि लिङ्गदर्शनेन परोक्षार्थप्रतिपत्तिरुपजन्यते ; सा चानुमानफलं नानुमानमिति - उच्यते - उभयथाऽपि न दोषः । 'क'रणावमर्शे तावत् इन्द्रियादिकरणपूर्वकं तत्फलं लिङ्गदर्शनं यत् तदेव परोक्षार्थप्रतिपत्तौ करणमनुमानमिति न द्विः पूर्वकशब्दस्य पाठ उपयुज्यते । फलेऽप्यवमृश्यमाने प्रत्यक्षफललिङ्गदर्शनपूर्वकं यत् अविनाभावस्मरणं तदनुमानं करणमेव, ततः परोक्षार्थप्रतिपत्तेः ॥ यदुक्तं ( 309 पु. ) - प्रत्युत्पन्नकारणजन्या स्मृतिरनुमानमिति, तत्र स्पष्टमेव सामानाधिकरण्यम् ॥
. [सौत्रं अनुमानपदं अनुमितिपरं वा ]
फले वाऽनुमानशब्दं वर्णयिष्यामः - अनुमितिः अनुमानमिति ॥
आवश्यक इति । अनुमानफलं - अनुमितिः । अनुमितेः प्रत्यक्षपूर्वकत्वव्यपदेश: सर्वसंप्रतिपन्नः । अतः अनुमानं प्रत्यक्षपूर्वकपूर्वकं इति कथने सामानाधिकरण्यमबाधितम् । प्रत्यक्षपदस्य फळपरत्वे लिङ्गदर्शनस्यैव प्रत्यक्षपदार्थत्वं वक्तव्यं - तत्पूर्विका चानुमितिरेव, नानुमानभिति ' तत्पूर्वकमनुमानं ' इति. बाधितमिति ॥
उभयथापीति ।
अयमर्थः -- तत्पदस्येन्द्रियपरत्वे अनुमानपदं लिङ्गदर्शनपरं, ज्ञायमानलिङ्गस्यानुमितिकरणत्वेन लिङ्गज्ञानस्याप्यनुमितिकरणत्वानपायात् । उक्तं च तथा (पु. 282 ) । तत्पदस्य प्रत्यक्षज्ञानपरत्वे लिङ्गदर्शनं तत्पदार्थः, तत्पूर्वकं च व्याप्तिस्मरणं, तदेवानुमानपदवाच्यमिति न कश्चिद्दोषः || स्पष्टमेवेति । स्मृतेः प्रत्यक्षज्ञानपूर्वकत्वात् ॥
व्याप्तिस्मृतेः करणत्वस्य 'अन्ये तु 'पक्ष एवोक्तत्वात्, स्वमते परामृश्यमानलिङ्गस्यैव करणत्वात् प्रत्यक्षपदस्य ज्ञानपरत्वे ' तत्पूर्वकमनुमानं ' इति सामानाधिकरण्यहानिः स्वपक्षे - इत्यत आह-फले वेति । भावार्थकप्रत्य -
1 मिति - ख.
2 स्यात् - क.
3
'का-ख.