________________
330
अनुमानस्य प्रत्यक्षपूर्वकस्वनिरूपणम् न्यायमधरी तेष्वपि मूलभूतं प्रत्यक्षमेव कारणमिति केचिदाहुः । यथोक्तम (श्लो.वा. 1-1-5, अनु. 170)
'यत्राप्यनुमिताल्लिङ्गाल्लिङ्गिनि ग्रहणं भवेत् । तत्रापि मौलिकं लिङ्गं प्रत्यक्षादेव गम्यते' इति ॥
यद्वा प्राधान्याभिप्रायेण प्रत्यक्षपूर्वकत्वमुच्यते, न नियमार्थमिति नाव्याप्तिः॥
[प्रत्यक्षानुमानागमपूर्वकाण्यप्यनुमानानि सन्ति] तानीति वा पुनः तावदवबोधाय विग्रहः कर्तव्यः। तानिप्रत्यक्षादीनि पूर्व यस्येति । यद्यपि प्रत्यक्षमेव लक्ष्यन्वेन प्रस्तुतम्। तथापि व्यवच्छेद्यतयाऽनुमानादीनामपि प्रकृतत्वं न वार्यते ॥ .
तत्पूर्वक 'पदार्थशोधनम्] अत्र चोदयन्ति । तदिति करणावमर्शो वा स्यात् , फलावमर्शो वा। करणावमर्श इन्द्रियादिकरणपूर्वकं ज्ञानं तत्फलं तत्पूर्वक चानुमानमिति पूर्वशब्दस्य द्विः पाठः स्यात् । स चाच'त:
मौलिक-मूले भव, प्राथमिकमिति यावत् ॥
ननु यथाकथञ्चित्प्रत्यक्षमूलकत्वं सर्वप्रमाणसाधारणम् ; प्रत्यक्षं हि सर्वज्येष्ठम् । अतो नेदमनुमानासाधारणमित्यत आह-यद्वेति । अयमाशयःतत्पदं यद्यपि प्रत्यक्षपरं, अथापि इतरप्रमाणानामपि तदुपलक्षक, प्राधान्यात्तु तदुपात्तम् । नात्र तस्य लक्षणेऽपि प्रवेशः॥
लक्षणवाक्यघटकस्य लक्षणघटनमेव वरमित्यत आह-तानीति। तावदवबोधाय-तावद्विवक्षितार्थलाभाय । यद्यपीति। तत्पदं प्रकृतपगमर्शितन्त्र लक्ष्यत्वेन प्रत्यक्षं प्रकृतं, इन्द्रियार्थसन्निकर्षपदव्यवच्छेद्यतयाऽनुमानं प्रकृतं, भव्यपदेश्यपदव्यवच्छेद्यतया शब्दोऽपि प्रकृत इति तत्पदेन तेषां ग्रहणं भवत्येवेति । तथा च तत्पदं बुध्या प्रकृतस्य परामर्शकमित्युक्तं भवति ॥
करणेत्यादि-प्रत्यक्षपदं हि करणवाचि, फलवाचि चेति पूर्वमेवोक्तं, प्रकृतत्वमप्युभयोरस्ति । अतस्तत्पदग्राह्य किमिति भवत्येव संशयः। द्विः पाठ इति । अनुमानं हि व्याप्तिज्ञानं, तश्च इन्द्रियपूर्वकलिङ्गदर्शनपूर्वकम् , म स्विन्द्रियपूर्वकम्। एवं च इन्द्रियपूर्वकपूर्वकमिति ‘पूर्वक' पदस्य द्विः पाठ
स्वा-ख.