________________
आह्निकम् २] सौत्रानुमानलक्षणस्य निर्दुष्टत्वसमर्थनम्
329 निपुणमभिधास्यते ; इह तु तद्हणोपायमात्रमुच्यते। सम्यक्प्रवृत्त च प्रतिबन्धग्राहिणि प्रत्यक्ष व्याप्तिविप्लवाभावान्नानुमानाभासप्रसङ्गः । सामान्यलक्षणानुवादेन च विशेषलक्षणे वर्ण्यमाने तत एव प्रमाणाभासयुदाससिद्धः केवलमिदानी समानजातीयोपमानादिव्यवच्छेदो वचनीय इति स एव तत्पूर्वकपदेनोपात्तः। 'अर्थोत्पन्नमव्यभिचारि व्यवसायात्मकम्' इति फलविशेषणानां सर्वप्रमाणेष्वनुवृतेः ॥
युगपञ्च क्वचिन्नास्ति व्यापारः शब्दलिङ्गयोः ।
असे नाव्यपदे'श्यत्व'विशेषणमिहार्थवत् ॥ २३७ ॥ द्वयोरपि च शब्दलिङ्गयोः ज्ञापकत्वेन स्वरूपग्रहणापेक्षत्वात् , ज्ञानायोगपद्येन च युगपद्रहणासंभवात् ॥
. [नाप्यव्याप्तमिदं लक्षणम् ] ननु! एवं निरस्य तामतिव्याप्तिः ; अव्याप्तिस्तु कथं निरसिष्यते ? आगमादिपूर्वकाणां अनुमानानामसङ्ग्रहात् ॥ सामान्येति । तत एव सामान्यलक्षणानाक्रान्तत्वादेव । व्यवच्छेद: केवलमित्यन्वयः॥ .
ननु 'अव्यपदेश्य' इत्यस्य कुतोऽत्र नानुवृत्तिरित्यत्राह--युगपदिति। उक्कमेव विवृणोति-द्वयोरिति । अयमर्थः--प्रत्यक्षस्थले इन्द्रियं करणं, इन्द्रियं च न ज्ञातं सत् करणं, किन्तु स्वरूपसदेव । तथा च नामस्मरणइन्द्रियरूपसामग्रीद्वयमेलनं तत्र संभवतीति ‘पनसोऽयं' इत्यादिशब्दविशेषण प्रत्यक्षं युज्यत इति तद्वारणायाव्यपदेश्यपदं प्रत्यक्षलक्षणे आवश्यकम्। अनुमितिशाब्दस्थले तु लिङ्गस्य शब्दस्य चोभयो: ज्ञातयोरेव करणत्वम् । तदा च नामस्मरणरूपं ज्ञानं न भवितुमर्हति, युगपत् ज्ञानद्वयानुत्पत्ते: इति तादृशज्ञानमेव नोत्पद्यत इति तद्विशेषणानुवृत्तिर्मास्तु ॥
आगमादीत्यादिना अनुमानपरिग्रहः। न हि तत्स्थले प्रत्यक्षद्वयपूर्वक व. मनुमानेऽस्तीत्यर्थ: ॥
1 शत्व-त.