________________
328
अनुमानस्य प्रत्यक्षपूर्वकत्वनिरूपणम् न्यायमञ्जरी - एतावत्युच्यमाने निर्णयोपमानादी तत्पूर्व के प्रसङ्गो न व्यावर्तत इति तद्यावृत्तये द्विवचनान्तेन विग्रहः प्रदर्शयितव्यः, ते-द्वे प्रत्यक्षे पूर्व यस्येति। यदेकं अविनाभाविप्रत्यक्ष व्याख्यातं, यञ्च द्वितीय लिङ्गदर्शन, ते द्वे प्रत्यक्षे अनुमानस्यैव कारणम् , नोपमानादेः। तत्र प्रतिबन्धमा हे प्रत्यक्षं स्मरणद्वारेण तत्कारणम्, लिङ्गदर्शनं तु स्वत एव॥
ननु ! प्रत्यक्षमात्रस्य प्रकृतत्वात् प्रकृतावमर्शित्वा सर्वनाम्नः कुतोऽयं विशेषप्रतिलाभः ? उच्यते--उदाहरणसाधात् साध्यसाधनं हेतुरिति वक्ष्यते । हेतुरेव चानुमान-यदिह लक्ष्यं निर्दिष्टम्। न चागृहीत नुदाहरणसाधर्म्य तद्वैधर्म्य वा साध्यसाधनं भवतीति तद्हणोपायोऽपेक्षितव्यः। प्रत्यक्षव्यतिरिक्ततदवगमोपायपरिकल्पते चानवस्थादूषणमसकृदभिहितमिति प्रत्यक्षस्यैव तदुपायत्वम् । अतोऽजुमानकारणभूतप्रत्यक्षापेक्षया प्रत्यक्षमात्रप्रक्रमेऽपि सर्वनाम्ना तद्विशेष आक्षिप्यते यत् प्रतिबन्धग्राहि. प्रत्यक्षम्, यच्च द्वितीयं लिङ्गदर्शन मिति ॥
नेदं लक्षणमतिघ्याप्तम्] - ननु! प्रत्यक्षविशेषद्वयपूर्वकत्वानुमानाभासेष्वपि सव्यभिचारविरुद्धादिषु संभवतीत्यतिव्याप्तिः - मैवम् - हेतुलक्षणे(न) साध्यसाधनग्रहणेन तत्प्रतिक्षेपात् । प्रतिबन्धस्वरूपं हि तत्रैव
निर्णयोपमा नेति। दूरात् किञ्चित्पश्यन् सामान्यतस्तदवगव्य समीपं गतस्तन्निर्धारयति । तदेतन्निर्धारणं प्रत्यक्षपूर्वकमेव । एवमुपमानमपि सादृश्यदर्शनमूलकमेव । प्रसंगः-लक्षणस्येति शेषः, अतिप्रसङ्ग इति यावत् । ते इति । वार्तिकेऽप्येवमेव विगृहीतम् ॥
विशेषः-वैलक्षण्यं एतादृशविलक्षणप्रत्यक्षद्वयपूर्वकत्वरूपम्। हेतुरेवेति-परामृश्यमानं लिङ्गं हि करणम्। तदवगमः-- साधर्म्यवैधावगमः । अत:-प्रकृतत्वात् बुद्धिस्थत्वाच्च ॥ . हेतुलक्षण इनि। 'उदाहरणसाधासाध्यसाधनं हेतुः' इतिसूत्रोक्त इत्यर्थः। हेत्वाभासानां साध्यसाधकत्वं नास्त्येवेति भावः। तत्र--- हेतुसूत्रव्याख्यानावसरे । वस्तुतस्त्वतिव्याप्तिकथनस्यावकाश एव नास्तीत्याह