________________
327
आदिकम् २] वषटकतत्पूर्वकपदव्याख्यानम्
ऋजूनां जायते तस्मात् न तावदनुमेयधीः । यावत्कुटिलितं चेतो न तेषां विटतार्किकैः ॥ २३२ ॥
[उक्तपक्षनिराकरणम्] . एवं तु कथयद्भिस्तैः परं नास्तिफ्यमात्मनः।। ख्याप्यते स्म, जडत्वं वा, नानुमानाप्रमाणता ॥ २३३ ॥ न हि सम्बन्धग्रहणोपायवैचित्र्यादप्रमाणता भवितुमर्हति ।
आगमेनानुमानेन तर्कव्युत्पादनेन वा। प्रत्यक्षेण गृहीतो वा सम्बन्धो न विशिष्यते ॥ २३४ ॥ ईश्वराद्यनुमानानां तत्प्रसङ्गे सविस्तरम्। द्रढिमानं च वक्ष्यामः, इत्यलं बहुभाषितैः ॥ २३५ ॥ प्रमाणमुपगम्यतां तदनुमानमेवंविधैः ... अविप्लुतपराक्रमं भवदुदीरितैर्दूषणैः। अनभ्युपगमे पुनर्विगतचेष्टिताः प्राणिनः भवेयुरुपलोपमा इति हि पूर्वमावेदितम् ॥ २३६ ॥
[अनुमानलक्षणपरसूत्रव्याख्यानम् ] - अथेदानी सूत्रमनुसरामः। तत्पूर्वकमित्यादि। अनुमानमिति लक्ष्यनिर्देशः। तत्पूर्वकमिति लक्षणम् । तदिति सर्वनाम्ना प्रक्रान्तं प्रत्यक्षमवमृश्यते। तत् पूर्व-कारण यस्य तत् तत्पूर्वकम्॥
नास्तिक्यं ईश्वरपरलोकानुमाननिराकरणात् । तेषामनुमानैकगग्यवं स्वावसरे निरूप्यते। उपायवैचित्र्य -- एकत्र स्वयंग्रहात्, अन्यत्र तार्किको. पदेशाच्च । उपायवैचित्र्यमेवाह-आगमेनेत्यादि। भागम:-'वहिव्याप्यो धूमः' इत्याप्तवाक्यरूपः, न्यायावयवरूपो वा। अनुमानं-धूमः वहिव्याप्य: पावद्वयधिकरणवृत्तित्वादित्यादिः। तर्क:- यदि धूमः वहिग्याप्यो न स्यात् तर्हि वहयभाववद्वत्ति: स्यात् इत्यादिरूपः। एवंविधषणः इत्यन्वयः । पूर्व-317 पुरे ॥