________________
326 अनुमानप्रामाण्यसमर्थनम्
न्यायमञ्जरी [विरुद्धाव्यभिचारी न सर्वत्र सुलभः] न विशेषविरुद्धश्च न चास्तीष्टविघातकृत् । हेतौ सुप्रतिबद्ध हि नैताः सन्ति विडम्बनाः ॥ २२७ ॥ तादृशा चानुमानेन पुंसोऽर्थमधिगच्छतः। नान्धेन तुल्यता हस्तस्पर्शानुमितवर्मना ॥ २२८ ॥ यत्नेनानुमितो योऽर्थः कुशलैरनुमातृभिः। .. अभियोगशतेनापि सोऽन्यथा नोपपाद्यते ॥ २२९ ॥
__ [मतान्तरेणानुमानद्वैविध्यवर्णनम्] सुशिक्षिततराः प्राहुः--द्विविधमनुमानम्; किञ्चिदुत्पन्नप्रीति, किश्चिदुत्पाद्यप्रतीति । ईश्वराद्यनुमानं तूत्पाद्यप्रतीति ॥
तत्र धूमानुमानादेः प्रामाण्यं केन नेष्यते? अतो हि साध्यं बुद्धयन्ते तार्किकैरक्षता अपि ॥ २३० ॥ यत्त्वात्मेश्वरसर्वशपरलोकादिगोचरम्।
अनुमानं न तस्येएं प्रामाण्यं तत्त्वदर्शिभिः ॥ २३१ ॥ - हेतौ समीचानव्याप्तिविशिष्टे सति एता विडम्बना न सन्ति—न संभवन्ति। अतश्च 'हस्तस्पर्शादिनान्धेन' (316 पु.) इत्युक्तिर्न युक्तिमती। अतश्च 'यत्नेनानुमितः' (316 पु.) इत्यादिश्लोकोऽपि किञ्चियंत्यस्थ पठनीय इत्याहयनेनेति। अभियोग :-कलहाह्वानम् ॥ .
द्विविधमित्यादि । अयमर्थ:- कानिचिदनुमानानि स्वतस्सर्वेषामनुभवसिद्धानि-यथा धूमाद्वयनुमानम् । कानिचित्तु अन्येनोपदिष्ट एवमिदं स्यादिति प्रवृत्त्या भवन्ति- यथेश्वराद्यनुमानानि। न हीश्वरानुमानं आबालगोपाल. सिद्धम् ; अत इदं उत्पाद्यप्रतीतिकम् । माद्यं तु उत्पन्नप्रतीतिकं प्रमाणमेव । द्वितीयं तु न प्रमाणम्। एतदेवानन्तरश्लोकैरुपपाद्यते । केन-पुरुषेण, हेतुना वा। अतः-धूमादेः । अस्यानुमानस्योत्पन्नप्रतीतिकत्वमुपपादयति-तार्किकैरिति । अक्षताः- अपीडिताः। 'पतिं विश्वस्यात्मेश्वरं ', 'यः सर्वज्ञः' इति श्रुति स्मरन्नाह-आत्मेश्वरेत्यादि। यत्तु ईश्वरपरलोकादिगोचरं अनुमानं, तस्य प्रामाण्यं तत्त्वदर्शिमिर्नेष्टम् । यतस्तद्विषये दुष्टतार्किककुशिक्षणमन्तरा ऋजुमतीनां अनुमितिन जायते ॥