________________
আক্তিক ২]। ध्याप्तिग्रहविरोधिनिरसनम्
325 अनुमानप्रामाण्यदूषणप्रतिवचनम् ] यदप्यवादि (पु. 313)-'विशेषेऽनुगमाभावात् सामान्ये सिद्धमाधनात्' इति तदप्यसाधु-साध्यस्य मत्वर्थस्य दार्शतत्वात् ॥
यदपि 'अवस्थादेशकालादिभेदात्' इत्यभ्यधायि (314 -- पु.) तदपि न भगवहम्--सम्यगवधूतायां व्याप्तौ विप्लवाभावात् । प्रमातुरेव तत्र तत्रापराधः, नानुमानस्येति ॥
यदपि व्याहारि (316 पु.)-विरुद्धानुमानविरोधयोः सर्वत्र संभवात् कुत्रचिच विरुद्धाव्यभिचारिण इष्टविघातकृतश्च सुलभत्वादिति-तदप्यालजालम-प्रयोजकहेतौ प्रयुक्ते सत्येवंप्रायाणामनवकाशत्वात् ॥
सद्वितीयप्रयोगास्तु न भवन्ति प्रयोजकाः।
उत्प्रेक्षामात्रमूलत्वाद्धत्वाभासा भवन्ति ते-इति वक्ष्यामः ॥ मुख्यवृत्त्या बोधितः मुख्यार्थ इति शास्त्रकारैः उपचारात् सङ्केताद्वा उच्यते, न तु गौणत्वादिरर्थधर्मः। 'गङ्गायां घोषः' इत्युक्ते गौण्या योऽर्थः गङ्गातीरादिर्बोध्यते स एवार्थः 'गङ्गातीरे घोषः' इत्यत्र मुख्यो भवति। अत: गौणत्वमुख्यत्वे नार्थधर्मों, किन्तु शब्दधर्मावेव। एवं प्रकृतेऽपि पक्षपदस्थाने साध्यविशिष्टधर्मिपदप्रयोगे प्रमाणमगौणं भवति । अतः किमिदं दूषणम् !
साध्यस्येति। यद्यपि धूमसामान्यावह्निसामान्यं यत्र कुत्रचिसिद्धम् , भथापि प्रकृतपक्षे वह्निसम्बन्धः असिद्ध इति तत्साधनमवशिष्यत एवेति । अयमेव सम्बन्धः 'वह्विमान्' इत्यत्र मतुबा बोध्यते ॥
विरुद्धेति । यद्यप्ययं पूर्व नोक्तः, अथापि सोऽपि तत्र अर्थसिद्ध इति भावः। आलजालं-अतिवारजालमिति यावत् । प्रयोजकहेतौ-- अप्रयोजक शंकायां तद्वारकसत्तर्कविशिष्टसाधकहेतावित्यर्थः। सद्वितीय प्रयोगाः समानद्वितीयहेतुप्रयोगमात्रम् । अप्रयोजकत्वे हेतुः-उत्प्रेक्षेति। न हि द्वितीयहेतुप्रयोगमात्रेण हेतोस्सप्रतिपक्षत्वं, सद्धेतावपि तादृशहेत्वाभासप्रयोगसंभवात्। किन्तु तुल्यबलम्ब एव। उत्प्रेक्षामात्रमूलत्वात् प्रतिहेतोः अप्रयोजकशंकावारकतर्कासंभवेन न ते प्रयोजकहेतवः॥