________________
324 अनुमानप्रामाण्यतमर्थनम् -
न्यायभारी (पक्षधर्मताज्ञानस्यावश्यकत्वम्] . गृहीने नियमे यावत्पुनः क्वचिद्धर्मिणि धूमादेलिङ्गस्य ग्रहणं न वृत्तं, तावन्न भवति लिनिनोऽवगतिरिति सम्बन्धग्रहणकालापेक्षया द्वितीयं तल्लिङ्गदर्शनमपेक्षितव्यम् । सैवेयं पक्षधर्मतोच्यते । पक्षधर्मान्वयव्यतिरेकनिश्चये 'सत्यपि प्रत्यक्षागमविरोधेन प्रतिपक्षोपनिपातेन वा न गमकत्वमिति तदपरं लक्षणद्वयमुपदिष्टं-. अबाधित वपयत्वं असत्प्रतिपक्षत्वं चेति। तदेवमनुभवसिद्धत्वात् अनुमानस्वरूपमिव तस्य लक्षणमपि तान्त्रिक कथित मप्रत्याख्येयम्॥
अपि च यदि तान्त्रिकविरचित'मवाचकं लक्षणं तत् स्वयमन- . वद्यमावेद्यताम् । न तु तद्देषेण लक्ष्यमप्यनुमानं निह्नोतुं युक्तम् ॥
(पक्षपदस्य गौणत्वेऽपि प्रमाणस्य न गौणत्वम् ] यत्पुनरभाणि (312 पु.) प्रमाण'स्या गौणत्वादनुमानादर्थनिश्चयो दुर्लभ इति-तन्न बुद्ध्यामहे-न हि प्रमाणस्य किश्चिगौणत्वमिह पश्यामः । पक्षधर्मादिपदानि यदि नाम व्याख्यातभिः गौणान प्रयुक्तानि किमेतावता प्रमाणं गौणीभवेत् ! . शब्दान्तरेण हि तल्लक्षणाभिधाने न कश्चिद्गौणतादिप्रमादः॥
कचिद्धर्मिणि-पर्वतादौ। द्वितीयं--प्रथम केवलधूमदर्शन, तत: व्याप्तिस्मृतिः, तत: व्याप्यस्य हेतोः प्रकृतपक्षवृत्तित्वानुसन्धान वहिव्याप्यधूमवांश्चायं इत्येवंरूपं द्वितीयम्। न गमकत्वं-नानुमापकत्वं, लिङ्गस्येति शेषः। तान्त्रिकः - तन्त्रं शास्त्रं सिद्धान्तं वा वेत्तीति। तान्त्रिको ज्ञातसिद्धान्तः' इत्यमरः॥
सिद्धान्त क्तलक्षणस्य दुष्टत्वमभ्युपेत्याह-अपि चेति। अवाचक-- विवक्षितार्थबोधनाय नालम्। पूर्वमुक्त(316 पुटे)विकल्प: अत्र स्मर्तव्यः ॥
तन्न बुध्यामह इति। गौणत्वं मुख्यत्वं वा शब्दगतावलिशयो, न स्वर्थनिष्ठौ तौ। अत: अर्थस्य गौणत्वं नाम को दोष इति न जानीम इत्यर्थः ॥
ननु ‘गौगार्थः, मुख्यार्थः' इत्यादिव्यवहारात् शब्दवत् अर्थेऽपि गौणत्वमस्त्येवेत्यत्राह-शब्दान्तरेणेति। गौणवृत्त्या योधितः अर्थः गौणः,
'च-7. 2 विचित-ख.
तं लक्षण-ग. 'स्य--ख.
रे-क.