________________
'आह्निकम् २]
व्याप्तेः सुप्रहस्व निरूपण निगमनम्
भावयोः साहचर्य यत् अन्वयं तत् प्रचक्षते । व्यतिरेकं तु मभ्यन्ते साहित्यं तदभावयोः ॥ २२३ ॥
साध्यसाधनभावस्तु भवेद्यत्राप्यभावयोः । तयोरेवान्वयस्तत्र व्यतिरेकस्तु भावयोः ॥ २२४ ॥ तदेवमभावान्वयवद्भावयतिरेकोऽपि प्रत्यक्षगम्यो भवत्येव ॥
इयानेव विशेषस्तु भावयोर्यादृशी ययोः । व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः ॥ २२५ ॥
अभावयोस्तु गम्यगमकभावे भावयोर्व्याप्तिव्यत्ययो द्रष्टव्यः । एवञ्च प्रतिषेध्यां 'नुगमपूर्वक सामान्याभावद्वयानुगमप्रत्ययोपपत्तेः अन्वयव्यतिरेकनिश्चये ऽपि न योगिप्रत्यक्षमुपयुज्यते ; भावाभावसाहचर्यमवधार्य मनसा नियमज्ञानसिद्धेरित्यलं निर्बन्धेन ॥
तस्मात् नियमवत् तद्गृहणोपायोऽप्यस्तीति सिद्धम् ॥
व्यतिरेकग्रहणकालेऽपि तदनुपयुक्तमित्यर्थः । ननु 'भावयोस्साहचर्यमन्वय:, अभावयोरसाहचर्य व्यतिरेकः ' इति न युक्तं ; अभावसाध्यकस्थले वैपरीत्यव्यवहारादिति शङ्कायां आई - साध्येति । तथा च भावपदं साध्यहेतुपरं, अभावपदं च तदभावपरमिति भावः । धूमाभाववान् वह्नयभावात् इत्यादौ पत्र- वह्नयभावः तत्र धूमाभावः इत्यन्वयः, यत्र धूमः तत्र वह्निरिति व्यतिरेकः ; धूमाभावाभावादेः धूमादिरूपत्वात् । अभावान्वयवद्भावव्यतिरेकोऽपि इत्येतत् अभाव साध्यहेतुकस्थलाभिप्रायेणोक्तम् ॥
323
ययोर्भावयोः इत्यन्वयः । व्यत्यस्तेति । अन्वयस्थले हेतुः व्याप्यः, साध्य: व्यापकः । व्यतिरेकव्याप्तौ साध्याभावः व्याप्यः, हेत्वभावः व्यापकः, व्यापकाभावात् खलु व्याप्याभाव इत्यर्थः । एतदेवोपपाद्यतेऽनन्तरवाक्येन । प्रतिषेध्येति । प्रतियोगिनोः वह्निधूमयोः अनुगमात् तत्प्रतियोगि कयोरभावयोरप्यनुगतत्वसिद्धया अन्वयव्यतिरेकनिश्चयः सुलभ एव । परं तु व्यतिरेकसाहचर्यस्य प्रकृते आरोपात्मकत्वस्वारस्यात् तदंशे मानसमेव ज्ञानं विवक्षितम् ॥
धा-क.
2
'न्य-ख.
3
तब-ख.
21*