________________
828
अनुमानप्रामाण्यसमर्थनम्
न्यापमचारी [म्यतिरेकोऽपि गृहीतुं शक्यत एव] अपरे पुनः अनग्नित्वसामान्यमन्तरेणापि योगिप्रत्यक्षकल्पनामकुर्वन्त एव मानसप्रत्यक्षगम्यमन्वयव्यतिरेकमाहुः। धूमाग्निसामान्ये तावत्सहचरिते उपलब्धे, तद्वत्तदभावावपि सहचरितावुपलभ्येते एव। धूपत्वसामान्यस्यानग्नौ जलादावदर्शनात् । सर्वगतत्वेऽपि सामान्यानां वृत्तिभेदो नियामक इति वक्ष्यते ॥ .. __यद्यपि चानग्नि'त्वाद्यभाव'सामान्यं नास्ति; तथाऽपि प्रतिषे- ' ध्याग्नित्वसामान्यानुगमसिद्धथैव तदभावानुगमग्रहणं सिद्धयति ।
[स्वपक्षेण न्याप्तिग्रहसमर्थनम्] सकलव्यक्तिविज्ञानमनङ्गं व्याप्तिनिश्चये।
भावसामान्ययोर्यद्वत् तथैव तदभावयोंः ॥२२२॥ . पूर्वोक्त(320 पु.)पक्षात् वैलक्षण्यसूचनाय—योगिप्रत्यक्षेत्यादि । धूमाग्निसामान्ये-धूमाग्योः सामान्ये। तद्वत्-धूमत्ववतित्वद्वारैव । वह्नयभावो नाम वद्वित्वावच्छिन्नप्रतियोगिकाभावः, एवं धूमाभावः-धूमत्वावच्छिन्नप्रतियोगिकः। एवञ्च भावयोरिवाभावयोरपि धूमत्वादिकमेवानुगमकं भवितुमर्हति। अनग्नौ जलादौ धूमत्वावच्छिन्नस्यादर्श ने स व्यतिरेकः अन्वयवदेव वह्नयभावधूमाभागदिकं सामान्यद्वारा क्रोडीकुर्यादेवेति, । ननु धूमत्वादिकं सर्वगतमिति भवता सिद्धान्तः । अतश्च जलादौ कथं तदभाव:, तदवच्छिन्नाभावो वा? इत्यत्राह-सर्वगतत्वेऽपीति। जाते: सर्वगतत्वेऽपि समवायेन सा यत्र वर्तते तत्रैव स्वाभावप्रतीति निरुणद्धि, न तु स्वरूपतो यत्र वर्तते तत्र । समवायेन जाति: व्यक्तिष्वेव वर्तते। अतस्तत्र तत्प्रतीतिः व्यक्तेर्जातिव्यञ्जकत्वात्। अन्यत्र तु व्यञ्जिकाया व्यक्तेरभावेन तदभावप्रतीतिरित्यादिकं तत्प्रकरणे वक्ष्यत (४ आह्निके) इत्यर्थः ॥
तद्वदित्याद्यनुपदोक्तं स्फुटयति—यद्यपीत्यादिना ॥
भावयोरिति वक्तव्ये, व्याप्स्सामान्यप्रधानकत्वेन भावसामान्ययोरित्युक्तम्। यथा अन्वयग्रहणकाले व्यक्तीनां प्रातिस्विकभानं नोपयुक्तं तथा