SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ व्यतिरेकसहचारग्रहस्थावश्यकत्वम् आढकम् २] 821 अयमाशयः-भूयोदर्शनतस्तावत् उदेति मतिरीदृशी । __ नियतोऽयमनेनेति 'सकल'प्राणिसाक्षिका ॥२२१॥ तावता च गमकत्वमौत्सर्गिकं सिद्धति । .मीमांसकानां तु विपक्ष दर्शनं बाधकः प्रत्ययः। न च सोऽस्ति, नाद्य यावदनग्नौ धूमो दृष्टः। अनुत्पन्नेऽपि बाधके तदाशङ्कनमयुक्तमित्युक्तं तैः-- ... 'दोषज्ञाने त्वनुत्पन्ने न शङ्कया निष्प्रमाणता' इति ॥ (श्लो. वा. १-२-६०) [व्यतिरेकनिश्चय: आवश्यक: एतत्त न चारु । व्यतिरेकनिश्चयमन्तरेण प्रतिबन्धग्रहणानुपपत्तरित्युक्तत्वात्। ज्ञापकत्वाद्धि नियमः स्वग्रहणमपेक्षते । नियमश्चायमुच्यते यत् तस्मिन् सति भवनं, ततो बिना न भवनमिति । भूयोदर्शनतश्च' तस्मिन् सति भवनमित्यन्वयमात्रपरिच्छेदादर्धगृहीतो नियमः स्यात् , ततो बिना न भवनमित्यस्यार्थस्यापरिच्छेदादिति ॥ यत्र कुत्रचिद्वह्निधूमयोरदर्शनत एव; न तु अवह्निषु सर्वत्र तन्निर्णयः अपेक्षित इत्यर्थः । सहचारिणः--निर्णीतसाहचर्यमात्रवन्तः ॥ • ननु व्यतिरेकानिश्चये कथं नियतसाहचर्य गृह्येत । न हि साहचर्यमानं • ग्याप्तिः, व्यभिचारात्। अत: अन्वयग्रहणमात्रान्न प्रतिबन्धावधारणमित्यत्राह ---अयमाशय इति । औत्सर्गिकमिति । एतदुक्तं भवति । मनग्नीनां सर्वेषां दुज्ञेयत्वेऽपि कुत्राचेद्धदादौ व्यभिचारादर्शनात् तावन्मात्रग्यतिरेकग्रहसहकृतादन्वयग्रहादेव व्याप्तिः यावद्वाधं निर्णेष्यत एव। बाधस्य कुत्राप्यदर्शनात् गृहीता व्याप्तिस्तावत्पर्यन्तं तथैवावतिष्ठत इति । अयमेवार्थ: विवियते - अनन्तरवाक्यैः ॥ उक्कमेवोपपादयति-ज्ञापकत्वादिति । ज्ञापकत्वं - एकसम्बधिज्ञानविधया इतरज्ञानजनकानां अयं स्वभाव:- स्वयं ज्ञातानामेव ज्ञापकत्वमिति इत्यर्थः ॥ मकला-क. न तच्च-ख. NYAYAMANJARI 21
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy