________________
320 अनुमानप्रामाण्यसमर्थनम्
[न्यायमचरी [यौक्तिकप्रत्यक्षात् व्याप्तयवधारणरूपपक्षः ! अपरे पुनः योगिप्रत्यक्षकसं यौक्तिकं सम्बन्धग्राहि प्रत्यक्षं प्रतिपेदिरे किल । धूमत्वाग्नित्वसामान्यपुरस्कारेण व्याप्यव्यापकयोरन्वयो नाम गृह्यताम् , व्यतिरेकस्त्वनग्निभ्य: धूमस्य ग्रहीतव्यः । अनग्नयश्चाति वितताः। न च तेष्वनग्नित्वं नाम सामान्यमस्ति । तेन समस्तत्रैलोक्यान्तर्गताग्न्यनग्निगतान्वयव्यतिरेकग्राहिप्रत्यक्षव्यतिरेकेण न प्रतिबन्धोऽवधृतो भवेत् । अनववृतश्च न प्रमाङ्गम् । अस्ति च प्रमेति 'युक्ति बलात् प्रतिबन्धग्राहकमेकस्मिन् क्षणे प्रत्यक्षमिदमशेषव्यक्तिविषयमसंवेद्यमानमपि कल्पितमिति यौक्तिकमुच्यते॥
[व्यतिरेकसहचारनिश्चयं विनापि व्याप्तिनिर्णीयते अन्ये पुनः अत एव तत्कल्पनाभयात् भूयोदर्शनपरिच्छिन्नसामान्यपुरस्सरान्वयमनपेक्षितव्यतिरेकनिश्चयमेव लिङ्गं गमकमभ्यु. पागमन् । यथोक्तम्-(श्लोक. वा. 1-1-5, अनु. 134-137)
'मम त्वदृष्टिमात्रेण गमकाः सहचारिणः' इति ॥
योगीति । योगिनो हि सर्व साक्षात्कुर्वन्तीति श्रूयते। इन्द्रियासमिकृष्टस्य कथं प्रत्यक्षत्वमिति शङ्कायां, कार्यानुरोधेन कारणस्य कल्पनीयतया योगप्रभावजनितमदृष्टविशेष कारणमामनन्ति । एवमेवात्रापि यत्र धूमस्तत्राग्निः इति व्याप्तिः सर्वानुभवसिद्धा। अन्वयग्रहणं यद्यपि सामान्यद्वारा भवेत् । अनग्निष्वनुगतसामान्याभावात् व्यतिरेकग्रहणं तु न तथा भवेत्। दृश्यते त्वनुमितिः। व्याप्तिग्रहणस्यानुमितिमूलकत्वे त्वनवस्था। अत: गत्यन्तराभावात् फलबलेन युक्तिमूलकमेव व्याप्तिप्रत्यक्षं प्रथमतः कल्पनीयम्। न चैकस्मिन्नेव क्षणे युक्तिवशाद्वा सर्वव्यक्तिप्रत्यक्षं नानुभवसिद्ध मिति शङ्कयम् । ज्ञानस्यातिसूक्ष्मत्वेन दुर्विज्ञेयत्वादज्ञाततौल्यं भवेत् । ज्ञानद्वयादनुमितिस्थले यथा वा विशिष्टं ज्ञानं फलबलेन कल्प्यते तथात्राप्युपपद्यते । अतो यौक्तिकप्रत्यक्षगम्य: प्रतिबन्ध इति ॥
अत एवेत्यस्यैवं प्रपञ्चः --तत्कल्पनाभयादिति । भूगेदर्शनपरिच्छिन्न: सामान्यपुरस्सरः अन्वयः यस्येति बहुव्रीहिः। अदृष्टिमात्रेण
युक्त-ख.