________________
आह्निकम् २] व्याप्तेः सुग्रहत्ववर्णनम्
319 नियतात् कुतश्चिदेव वस्तुनि प्रतीतिदर्शनादित्युक्तत्वात् : नियमश्च यद्यगृहीत एव प्रतीत्यङ्गं भवेत् , नारिकेलद्वीपवासिभिरपि धूमदर्शनात् कृशानुरनुपीयेत। न चैवमस्तीति नियमग्रहण'मपेक्षणीयम् ॥
[मानस व्याप्त्यवधारणम् यञ्च विकल्पितं अशक्यं तद्ग्रहणमिति-तत्र केचिदाचक्षते--.. मानसे प्रत्यक्ष प्रतिवन्धग्राहीति। प्रत्यक्षानुपलंभाभ्यां अनलसहचरितमनग्नश्च व्यावतमानं धूममुपलभ्य विभावसो नियतो धूम इति लनसा प्रतिपद्यते ॥
मनश्च सर्वविषयं केन वा नाभ्युपेयते । असन्निहितमप्यर्थ मवधारयितुं क्षमम् ॥ २२० ॥
. सामान्यद्वारा व्याप्तिः] न च सकलत्रिभुवनविरनिरुद्धधूमाग्निव्यक्तिसार्थसाक्षात्करणमुपयुज्यते, ज्वलनत्वादिसामान्यपुरस्सरतया व्याप्तिग्रहणात् ॥ - यत्तक्तं-सामान्यं वास्तवं नास्तीति तत् शब्दार्थचिन्ताप्रसङ्गे प्रतिसमाधास्यते (४ आह्निके) अत्र वस्तीति प्रतिभातोऽनुमानमत्यन्तविलक्षणमित्यर्थः। नारिकेलद्वीपवासिमि:- कदाप्यदृष्टवह्निधूमस्वरूपैः ॥
प्रत्यक्षानुपलंभाभ्यां -वह्निमत्येव दशनेन वह्नयभाववत्यदर्शनेन च । उत्तरत्र यथासंख्यमिदमन्वेति । अनलसहचरितं-इत्यस्य धूमं इत्यनेनान्वयः। विभावसौ नियतः-वह्निनिरूपितनियमवान्। ननु मनसः बहिर्विषयेऽस्वातन्त्र्यात् कथं प्रतिबन्धग्रहणं मानसमित्यत्राह-मनश्चेति । वहिधूमयोः बाह्यत्वेऽपि तयोर्नियस ज्ञान आन्तरमेवेति भावः ।।
निरुद्धति । अन्तर्गतेत्यर्थः ॥
1मपी-ख.