________________
318
अनुमानप्रामाण्यसमर्धनम्
न्यायमञ्जरी
तस्मिन् सत्येव 'भवनं न विना भवनं ततः । अयमेवाविनाभावो नियमः सहचारिता ॥ २१५ ॥ किंकृतो नियमोऽस्यास्मिन्निति चेदेवमुत्तरम् । तदात्मतादिपक्षेऽपि नैष प्रश्नो निवर्तते ॥ २१६ ॥ ज्वलनाजायते धूमः न जलादिति का गतिः ? एवमेवैतदिति चेत्, साहचर्येऽपि तत्समम् ॥ २१७ ॥ . तर्कस्य यावान् विषयः स तावति निरूप्यते। वस्तुखभावभेदे तु न तस्य प्रभविष्णुता ॥२१८॥ अयं च विषयो युक्तः, यदुक्तं नियमाद्विना । नार्थादर्थान्तरे ज्ञानं अतस्तस्य प्रकल्पनम् ॥ २१९ ॥
ततः परं तु नियमोऽप्येष किंकृतः? इति न युक्तिः प्रभवति। तादात्म्यतदुत्पत्त्योरनुपपन्नत्वात् । अतो नियम एव विर'म्यते ॥
न च प्रतिभामात्रमानुमानिकी प्रमितिरिति वक्तुं युक्तम् ; विदः। साहचर्यमेव विशिनष्टि - तस्मिन्निति। ततो विना-इत्यन्वयः । एष प्रश्न:--किंकृतस्तयोरेव तादात्म्यं तदुत्पत्तिश्चेति प्रश्नः । प्रतिपक्षी उत्तरं वदति-एवमिति । तथानुभवादिति भावः। तुल्योऽयं समाधिरस्माकमपीत्याह-साहचर्यऽपीति। ननु अनुमानप्रामाण्यं . तर्कविरुद्धं, ताश्च पूर्वमुपपादिताः; इत्यत्राह-तर्कस्येति । स्वभावभेद:--स्वभावविशेषः । तर्कोऽपि सर्वत्र नैकरूपः प्रवर्तेत, न हि 'यदि वह्निद्रव्यं तर्हि पृथिव्यादिवन्न दहेत्' इति तर्कः प्रवर्तितुमलम् । धर्मिग्राहकप्रमाणात् तत्तदसाधारणधर्मविशिष्टधर्मिसिद्धिं तर्को न निवारयेत् । नियममन्तरा एकज्ञानात् अन्यस्य ज्ञानं न भवतीति यदुक्तं, अयमव युक्तः-- तर्कस्य विषयः। विधेयप्राधान्यात् पुल्लिङ्गत्वम्। तथा च न तर्कस्य निरवकाशत्वमित्यर्थः ।।
ततः परं--एवमनुभवान्नियमसिद्धयनन्तरम् ॥
ननु भोजनोत्कण्ठादः भविष्यद्रात्रागमनज्ञानं पूर्वमुक्तम , न हि तत्र नियतसाहचर्य शपथमन्तरेण शक्यम् , एवसवानुमानमप्यनिर्वचनीयहेतुकमेव कुतो न स्यादित्यत्राह--न चेति । प्रतिभास्थलेऽथसत्यत्वनिर्बन्धो नास्ति
1 भवने-ख. मो-ख. ज्यते-ख.