________________
अनुमानस्य दुरपह्नवत्वकथनम्
317
आडिकम् २]
तत्रानुमानस्वरूपं चाशक्यनिह्नवमेव, सर्वलोकप्रसिद्धत्वात् ॥ अबलाबालगोपालहालिकप्रमुखा अपि। बुद्धयन्ते नियतादर्थात् अर्थान्तरमसंशयम् ॥ २०९ ॥ अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा । लोकयात्रेति लोकाः स्युः लिखिता इव निश्चलाः ॥ २१० ॥
प्रत्यक्षदृष्टमपि पदार्थजातं तज्जातीयत्वलिङ्गव्यापारेण सुखसाधनं इतरकारणमिति वा निश्चित्य तदुपाददते, जहति वा लौकिकाः॥
- [अनुमानलक्षणाक्षेपसमाधानम् ] अथाविचारितरमणीयतैव तत्त्वं, न तु लक्षणनियमः शक्यक्रियस्तस्येति लक्षणाक्षेपोऽयमुच्यते-सोऽप्ययुक्तः। यतः
यं कञ्चिदर्थमालोक्य यः कश्चिन्नावगम्यते । कश्चिदेवाक्षिपत्यर्थमर्थः कश्चिदिति स्थितिः॥२११ ॥ तत्र वस्तुस्वभावोऽयमिति पादप्रसारिका। दृश्यते ह्यविनाभूतादर्थादर्थान्तरे मतिः ॥ २१२ ।। अतो यहर्शनाधंत्र प्रतीतिरुपजायते । तयोरस्त्यर्थयोः कश्चित् सम्बन्ध इति मन्महे ॥ २१३॥ तदात्मतातदुत्पत्ती न श्रद्दधति तद्विदः। साहचर्य तु सम्बन्ध इति नो हृदयङ्गमम् ॥ २१४ ॥
हालिकः - हलं वहतीत्यर्थे ठक। कृषीवल:-पामर इति यावत् । अनुमानमन्तरा केवलात् प्रत्यक्षात् लोकयात्राऽनिर्वाहमेवोपपादयति-प्रत्यक्षेति। इतरकारणं-- दुःखसाधनम् । न हि पुरतोवय॑नस्य तृप्तिसाधनत्वं तदानीं प्रत्यक्षमिति शेषः॥
अस्त्यनुमानं लोके, परन्तु तत्स्वरूपहेत्वादिकं त्वनिर्वचनीयमिति विकल्पं द्वितीयं प्रतिवक्ति --अथेति। यं कञ्चिदिति। न हि घटं दृष्ट्वा पटं प्रत्येति मनुजः, धूमं दृष्टा तु वह्नि सर्वोऽपि प्रत्येत्येव । अतोऽस्त्यनयो विशेषः । स एवाविनाभाव इति म्याप्तिरिति चोच्यत इति भावः । तद्विदः-तयोस्सम्बन्ध