________________
316 अनुमानप्रामाण्यसमर्थनम्
न्यायमखरी दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि । तदप्यसत् , अननो हि धूमस्येष्टमदर्शनम् ॥ २०२॥ अनग्निश्च कियान् ? सर्व जगजलनवर्जितम् । . तत्र धूमस्य नास्तित्वं नैव 'पश्यन्त्य योगिनः॥ २०३ ॥ तदेवं नियमाभावात् सति वा शप्तथसंभवात् । अनुमानप्रमाणत्व दुराशा परिमुच्यताम् ॥ २०४॥
[अनुमानानां प्रामाण्यं दुर्निरूपमेव] अनुमानविरोधोऽपि यक्चेिशविघातकृत् । . विरुद्धाव्यभिचारो वा सर्वत्र सुलभोदयः ॥ २०५॥.. अत एवानुमानानामपश्यन्तः प्रमाणताम् । तद्वितंभनिषेधार्थ इदमाहुर्मनीषिणः ॥ २०३ ॥ हस्तस्पर्शादिनान्धेन विषमे पथि धावता। अनुमानप्रधानेन विनिपातो न दुर्लभः॥.२०७ ॥ अपि चयत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ २०८ ॥
[अनुमानप्रामाण्यसमर्थनम्] अत्राभिधीयते-किमयमनुमानस्वरूपाक्षेप एव क्रियते ? उत 'तत्तत्तार्किकोपलक्षिततल्लक्षणाक्षेपः ? - इति ॥ . वह्निमत्येव धूमो वर्तत इति नियमः ज्ञायत एवेत्यत्राह-दर्शनेति। कियान्अनवधिक इत्यर्थः। तदेव वित्रियतेऽनन्तरपादेन । नैवेति । न हि तत्र सामान्य मुखेनापि ग्रहणं भवेत् । न हि अनग्नित्वं नाम कश्चनानुगतधर्मोऽस्ति, येन तत्पुरस्कारेण वा नियमो गृहीतः स्यादित्यर्थः ॥
एवमनुमानस्यासाधकत्वमुक्त्वा, बाधकत्वमपि तस्य न संभवतीत्याहअनुमानविरोध इति। अनुमानस्यानुमानाद्विगेधाङ्गीकारे तु तादृशप्रत्यनुमानं सर्वत्र सुलभ इति पूर्वमेवोक्तम् (293 पु.)। अनुमानप्रधानेनअन्धविशेषणमिदम् । यत्नत्यादि। अत्र 'नैषा तर्केण मतिरापनेया' (कठ. 2-9) 'तर्काप्रतिष्ठानात् ' (अ.सू. 2-1-16) इत्यादिकमप्यनुसन्धेयम् ॥
1 पश्यन्ति-क. वा-क. ता-क. .