________________
'आह्निकम् २] भूयोदर्शनादीनां न्यानिगमकत्वासंभवः
315 [भूयोदर्शनेनापि न व्याप्तिनिश्चयः भूयोदर्शनगम्याऽपि न व्याप्तिरवकल्पते । सहस्रशोऽपि तदृ'यौ' व्यभिचारावधारणात् ॥ १२.७ ।। बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चिंतः। देशकालादिभेदन दृश्यते पुनरन्यथा ॥ १९८ ॥ भूयो दृष्टया' च धूमोऽग्निसहचारीति गम्यताम् । अनग्नौ तु स नास्तीति न भूयोदर्शनाद्गतिः ॥ १९९ ॥
[साहचर्यनियमोऽपि दुर्ग्रहः] न चापि दृष्टिमात्रेण गमकाः सहचारिणः । तत्रैव नियतत्वं हि तदन्याभावपूर्वकम् ॥ २०० । नियमश्चानुमानाङ्गं गृहीतः प्रतिपद्यते । ग्रहणं चास्य नान्यत्र नास्तितानिश्चयं विना ॥ २०१॥ .
व्यभिचारेति। पार्थिवत्वलोहलेख्यत्वयोः शतशस्सहचारदर्शनेऽपि वज्रमणो व्यभिचारात् । पूर्व(श्लो. 190) क्वचित्सहचारदर्शन दूषितं, भय तु भूयोदर्शनमिति न पौनरुक्तयम् । वस्तूनामस्थिरत्वादपि भूयोदर्शन व्यभिचरत्येघेत्यप्याह-बहुकृत्व इति। बहुशः तथेति--तादृशशक्तिविशिष्टोऽयमितिरीत्या परिनिश्चितः ॥
एवं व्यतिरेकसहचारोऽपि न भूयोदर्शनेनावगन्तुं शक्य इत्याहअनग्नाविति । गतिः-अवगतिः ॥ ___ बहुषु उभयव्यतिरेकदर्शनेऽपि यत्र कुत्रचित् व्यभिचारे, भूयोदर्शनं निरुपयोगमेव। यावत्संभवं ग्रहणं त्वनुपयुक्तमित्याह-न चापीति । वास्तविकसहचारवतो: कुत्रचित्तथा ज्ञानमात्रान्न व्याप्तिनिश्चयः। न हि साहचर्यमानं व्याप्ति:, किन्तु नियतसाहचर्यमेवः नियमश्च ज्ञात एवानुमितिहेतुः, न तु स्वरूपतः। नियमज्ञानं च साध्याभाववति सर्वत्र हेतोरभावज्ञानादेव। अतश्च पूर्वोक्तदोषो दुरतिक्रम एव। ननु वह्निमति महानसादौ धूमदर्शनात् वल्यभाववति हृदादौ धूमादर्शनात्
'टे-ख.
दृष्ट्वा-ख.