________________
314 अनुमानप्रामाण्याक्षेपः
न्यायमारी देशकालदशाभेदविचित्रात्मसु वस्तुषु। अविनाभावनियमो न शक्यो 'वक्तुं', आह च ॥ १९१ ॥ अवस्थादेशकालादिमेदाद्भिन्नासु शक्तिषु। . भावानामनुमानेन प्रसिद्धिरति दुर्लभा॥ १९२ ॥
[व्याप्तिः असर्वज्ञैर्न गृहीतुं शक्या भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते। जगत्रयगताशेषपदार्थालोचनादुिना। १९३ ॥ न प्रत्यक्षीकृता यावद्धमाग्निव्यक्तयोऽखिलाः। तावत्स्यादपि धूमोऽसौ योऽनग्नेरिति शङ्कयते ॥ १९४ ।।
[सवज्ञानां तु नानुमानापेक्षा] ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशाः । किं दिव्यचक्षुषामेषामनुमानप्रयोजन'म ॥ १९५॥
[सामान्यद्वाराऽपि न व्याप्तिग्रहसंभवः]. सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः।
वास्तवं हि न सामान्य नाम किञ्चन विद्यते ॥ १९६॥ आह चेति। देश-काल-अवस्थाभेदैः एकमेव वस्तु विविधविरुद्धविचित्रशक्तियुक्तं दृश्यते। एवं वस्तुस्वरूपे अनियते नियमरूपव्याप्तिः कथम् ? तेन भावानां-वस्तूनां सिद्धिश्च कथम ?
उक्तमेवोपपादयति-न प्रत्यक्षीकृतेति। यथा अग्निमत्सु बहुषु सधूमेषु सत्स्वपि अयोगोलके व्यभिचारः, तथा धूम्वति कुत्रचित् वह्निरपि व्यभिचरितः स्यादिति भावः ॥
भवादृशा इति नर्मोक्तिः। अनुमानेन प्रयोजनं किम् ? इत्यन्वयः॥
ननु व्यक्तीनामनन्तत्वेऽपि सर्वव्यक्त्यनुगतसामान्यस्यैकस्य सत्त्वेन यत्र धूमत्वविशिष्टं, तत्र वह्नित्वविशिष्टमितिरीत्या सामान्य द्वारैव व्याप्तिग्रहीष्यते इति चेत् तत्राह---सामान्येति । तत्र हेतुमाह-वस्तवमिति। एतत्तत्त्वं सामान्यप्रकरणे व्यक्तीभविष्यति ॥
1 वस्तुं-ख. श:-ख. क-क