________________
आह्निकम् २] व्याप्ते?हस्वराशा
313 नाप्येवमन्वयः-यत्र धूमः तत्र पर्वताग्नी इति । धर्मविशिष्टे धर्मिणि साध्ये, तदुभयमघटमानमेव ॥ - नाप्यग्निविशिष्टधराधरधर्मतया धूमः प्रथममुपलब्धुं शक्यते ॥
न चाप्येवमन्वयः-यत्र धूमः तत्राग्निमान् पर्वत इति। तस्मादवश्यं पक्षधर्मत्वान्वयव्यवहारसिद्धये धर्मविशिष्टे धर्मिणि रूढः पक्षशब्दः तदेकदेशे धर्मिणि गोण्या वृत्त्या वर्णनीयः। अन्वयप्रदर्शनसमये च तदेकदेशे तथैव योजनेऽतिगौणलक्षणत्वादिन्द्रियार्थसन्निकर्षजन्वादिवदगौणलक्षणत्वाभावादनुमानमप्रमाणम् ॥
. न्याप्तिरपि दुर्ग्रहा अपि चविशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वात् अनुमानकथा कुतः ? ॥ १८९ ॥
[साहचर्यमपि न व्याप्तिग्राहकम् ] . साहचर्ये च सम्बन्धे विनम्भ इति मुग्धता। शतकृत्वोऽपि तदृष्टौ व्यभिचारस्य संभवात् ॥ १९ ॥ अघटमानमिति । वैशिष्टयाभानात् इति हेतुः ॥ प्रथम-एतदनुमानात वह्रौ पर्वतीयत्वनिर्णयात् पूर्वम् ॥
न चेत्यादि। तत्र अग्निमान् पर्वत इत्युक्ते हि पर्वतस्याप्यधिकरणभूतमन्यत् भासेत। स चानुभवविरुद्धः। अन्वयः- यत्र धूमः तत्राग्निरिति। पक्षशब्द एव गौणश्चेत् , तमादाय हेतो: पक्षधर्मत्वं तु ततोऽपि गौणमापनमिति भावः। एतादृशपमधर्मत्वादि(पु. 282)विशिष्टलिङ्गस्यानुमानरूपत्वे तु गौणमेव प्रमाण तत् ॥
विशेष इत्यादि । पर्वतीयवह्निधूमयोर्न व्याप्तिग्रहसंभवः। सामान्यत: यत् धूमवत् , तत् वह्निमदिति तु महानसादौ सिद्धमेव। अत: एतादृशवलिम्याप्यधूमवान् पर्वत इति परामर्शोऽपि न घटत एवेति अनुमानकथैव गलहस्तिता ॥
मुग्धता-मौख्यम्। संभवात्-पार्थिवस्वलोहलेख्यत्वयोः शतशः सहचारदर्शनेऽपि वज्रमणौ व्यभिचारात्। उक्कार्थे पूर्वपक्षिसम्मतिमाह