________________
312
अनुमानप्रामाण्याक्षेपः
[ न्यायमक्षरी
तयाऽपि धर्मिणः परोक्षत्वमवकल्पत इति तद्वद्यावृत्तये परोक्षग्रहणम् । नित्य* परोक्षस्यापि चेश्वराहऐन्द्रियादेरनुमेयतां वक्ष्यामः॥ तस्माद्यथोचिताल्लिङ्गात् यथोक्त नियमस्मृतेः । यथोक्तलिङ्गिविज्ञानमनुमानमिति स्थितम् ॥ १८७ ॥
[ अनुमानप्रामाण्याक्षेपः ]
ननु ! सत्यनुमानस्य प्रामाण्ये, लक्षणाश्रयः । कार्यो विचारः, न पुनः प्रामाण्यं तस्य युज्यते ॥ १८८ ॥ तथा चाहुः - प्रामाण्यस्यागौणत्वात् अनुमानादर्थं निश्चयो दुर्लभः । पक्षधर्मादिरूपं हि लिङ्गस्य बलाद्गौण्या वृत्त्या दर्शयितव्यम् । धर्मे हि साध्येन हेतोः पक्षधर्मत्वम्, अग्निधर्मत्वात् धूमस्य । धर्मिणि. साध्ये हेतोरनन्वयित्वम्, न हि यत्र धूमः तत्र पर्वत इत्यन्वयः । द्वये तु साध्ये द्वयमपि नास्ति । न हि दहनमहीधयोः धूमो धर्मः ॥
संयोगात् वह्निप्रत्यक्षं तत्र तस्य जायते । तत्रांव्यवहितपूर्वक्षणे व्याप्तिस्मृतेस्सस्वेन तज्ज्ञानस्यानु मानत्ववारणाय परोक्षपदमित्यर्थः । ननु परोक्षत्वं चानुमितिकालिकमेव वक्तव्यम् । अन्यथा व्याप्तिस्मरणस्यैवासंभवात् । एवञ्चातीन्द्रियवस्तुनः कदाऽप्यननुभवेन तत्र व्याप्तिस्मरणमेव कथमिति चेत् तत्राह - नित्येति । प्रसक्तमुपसंहरति — यथोचितादिति ॥
लक्षणाश्रयः - लक्षणविषयकः विचारः कार्यः -- कर्तुमर्दः । अगौणत्वात्-यत अगणं तदेव किल प्रमाणम्, अन्यथा लौकिकलिपिपत्रताम्र शासनादीनामपि प्रमाणत्वप्रसङ्गः । प्रमाणज्ञापकत्वमात्रात् खलु तेषां प्रमाणत्वम् । अन्यथा प्रमाणेयत्तैव दुर्वचा स्यादिति भावः । अनुमानस्य गौणत्वमेव विस्तरशः उपपादयति-- पक्षधर्मेत्यादि । धर्मे - केवलवह्नयादौ । अग्निधर्मत्वादिति । एकसम्बन्धिविधया ह्यनुमानप्रवृत्तिः । तत्र वह्निव्याप्यत्वात् धूमस्य व्याप्तयाख्यसम्बन्धानुयोगित्वात् वह्निधर्मः धूम इत्युक्तिः । धर्मिणि - केवलपर्वतादौ । न हीत्यादि । वह्निव्याप्यो हि धूमः, न तु पर्वतव्याप्यः । संयोगसम्बन्धमात्रं तु गगनेऽप्यस्तीत्यप्रयोजकम् ॥
* 309 पुटे द्रष्टव्यम् ।
1 र्य:- क.
2 नार्थ - ख.