________________
' आह्निकम् २] साध्यविशिष्टपक्षस्यैवानुमेयत्वम्
311 यश्च षोडशः पक्षः (१६) एतद्देशविशिष्ट एषोऽग्निरिति तत्रापि देशविशेषावच्छेदमन्तरेणैव वह्विरिति गृहीतुमेव न शक्यत एवेति प्रथमं देश एव गम्यते। तस्य च पूर्वप्रतिपन्नत्वात् इदानीमनवगतदहनविशिष्टस्यानुमातुं योग्यत्वात् स एव साध्यो युक्तः ॥
अपि चाग्नेः साध्यतायां अनुपलब्धतद्धर्मः कथमनुमापकः स्यात् ? अनुपलब्धे तु ज्वलने न तद्धर्मतया धूमो गृहीतुं पार्यते । उपलब्धे तु हुतभुजि भवदपि निष्फलमेव धूमस तद्धर्मताग्रहणम् । अनुमेयस्य तदानीमभावात् । तस्मादग्निविशिष्टः परिदृश्यमानो देश एव साध्यः । स च स्वरूपतः प्रत्यक्षोऽद परोक्षधर्मविशिष्टतया अनुमेय इति धूमधर्मयोगात् अग्निधर्मवान् स एवानुमीयते। सोऽनुमानस्य विषयो लिङ्गीत्युच्यते। परोक्षग्रहणं चैतदभिप्रायमेव॥
['परोक्षे' इति विशेषणमावश्यकम्] क्वचित्तु व्याप्तिस्मरणसमनन्तरमेव प्रत्यासीदतः प्रमातुः झटिति समुन्मिषन्नकस्मादेव प्रत्यक्षीभवति विभावसुरिनि न तद्विशिष्ट
प्रत्यक्षविरोध: स्पष्टः। सर्वदेशवृत्तित्वत्य एकस्मिन् वहौ, सर्वेषु वा वद्विषु बाधितत्वात् । षष्ठे सिद्धसाधनम् । सप्तमे अष्टमे च व्याघातः। नवमे बाधः। दशमे व्याहतिः। एकादशे सिद्धसाधनम् । द्वादशे व्याहतिः । त्रयोदशे चतुर्दशे च बाधः। पञ्चदशेऽसिद्धिः ॥ .
न शक्यत इति। विशिष्टवैशिष्टयावगाहिबुद्धौ विशेषणतावच्छेदकनिर्णयस्य कारणत्वादिति भावः। एवञ्च देश एव प्रथममवगतः, तक्ष च वह्नि नवगत इति अवगतस्य देशय विशेष्यत्वं अनवगतस्य वह्नविधेयत्वमेव च युक्तमिति ॥
अनुमेयस्याभावात् अनुमेयत्वविशिष्टवढेरभावात् । तदानीं बड़ेः सिद्धत्वादित्यर्थः । ननु परिदृश्यमानस्य देशस्य कथमनुमेयत्वमित्यत आह ...स चेति। 'अरोगोऽयं निष्पन्नः' इत्यादौ तथा व्यवहारादिति भावः । एतदभिप्राय - विशेषणस्य परोक्षत्वात् विशिष्टस्यापि परोक्षत्वतात्पर्यकम् ॥
तद्विशिष्टतया-साध्यविशिष्टतया। यत्र यवनिकाद्यन्तरितः यः पुरुषः धूमं पश्यन् यावत् ग्याप्तिं स्मरति, तावदेव यवनिकापगमादिना वहीन्द्रिय