________________
310 व्याप्तिस्वरूपपरीक्षा
न्यायमचरी धर्ममात्रम् ; अग्नेरपि यत्र तत्र सिद्धत्वात् । न च द्वयोस्साध्यत्वम् ; स्वतन्त्रयोस्तयोरपि सिद्धत्वादेव । तस्मादेकस्य द्वयोर्वा स्वातन्त्र्येणानुमेयता नावकल्पते इत्यवश्यमन्यतरविशिष्टोऽन्यतरः साध्यो वक्तव्यः ॥
[पक्षविशेष्यकानुमितिरेव स्वारसिकी] तत्रापि तु धर्म विशिष्टो धर्मी साध्यो युक्तः, न धर्मिविशिष्टो धर्मः। तथा हि-देशविशिष्टे वह्नौ साध्ये षोडशविकल्पाः संभवेयुः। (१) सर्व एवाग्निः सर्वदेशविशिष्टः? (२) अनिर्धारितदेशविशेषविशिष्टः ? (३) पूर्वानुभूतमहानसादिदेशविशिष्टः ? (४) संप्रत्युपलभ्यमानपर्वतादि देशविशिष्टो वा? अनुमेयः स्यात् ?
(५) अनिर्धारितविशेषो वा कश्चिदग्निः सर्वदेशविशिष्टः ? (६) अनिर्धारितदेशविशिष्टः? (७) पूर्वानुभूतदेशविशिष्टः? (८) परिदृश्यमानदेशविशिष्टो वाऽनुमेयः स्यात्.?
(९) पूर्वानुभूतो वाग्निः सर्वदेशविशिष्टः ? (१०) अनिर्धारितदेशविशिष्टः ? (११) प्रादृष्टदेश विशिष्टः ? (१२) उपलभ्यमानदेशविशिष्टः अनुमेयः स्यात् ?
(१३) एवं सिपाधयिषितो वाऽग्निः सर्वदेशविशिष्टः ? (१४) प्रागनुभूतदेशविशिष्टः? (१५) इदानी नुभूयमानदेशविशिष्टो वाऽनुमेयः? इति ॥
तत्रैते पञ्चदशपक्षाः प्रत्यक्षविरोधसिद्धसाधनत्वादिदोषोपहता इत्यनादरणीया एव ।। पक्षः। अन्यतरेतिः पर्वते वह्निः, पर्वतो वह्निमान् ---इति द्वेधाऽप्यनुमितेः सम्मतत्वादित्यर्थः ॥
'सर्व एवाग्निः'. इत्येतदुत्तरविकल्पनयेऽपि योज्यम् ॥
अनिर्धारितविशेष इति । विशेषश्चात्र ताणत्वादिः, महानसीयत्वादिः, तव्यक्तित्वादिकं वा। इदं उत्तरविकल्पवयेऽपि संबध्यते ॥
प्रत्यक्षेत्यादि। अत्र आदिना व्याघातग्रहणम् । तत्राद्यपक्षपञ्चके