________________
आलिकम् २]
___ व्याः स्मृतिरेवानुमितिहेतुः
309
तेन पूर्वगृहीतस्सन् इदानीं स्मृतिगोचरः । नियमः प्रतिपत्त्यङ्गं, तथाऽवगतिदर्शनात् ॥ १८५॥ - द्वितीयलिङ्गदर्शने सत्यपि नियमस्मरणमन्तरेण साध्यप्रमिते. रनुत्पादात् ॥
यत्रापि विषयेऽभ्यस्ते नैव सञ्चेत्यते स्मृतिः। तत्राप्यनेन न्यायेन बलात् सा परिकल्प्यते ॥ १८६ ॥
[अनुमितिः स्मृतिरूपेति पक्ष:] अत एव केचन प्रत्युत्पन्न कारणजन्यां स्मृतिमेवानुमानमुक्त
वन्तः
॥
[परोक्षे लिङ्गिनीतिपदप्रयोजनम्] प्रत्युत्पन्नं च कारणं कुत्रचिनि*णि धर्मान्तरसहचरित लिङ्गदर्शन मिति परोक्षे लिङ्गिनीत्युक्तम् ॥ - [साध्यविशिष्टपक्ष एवानुमेयः, न साध्यमात्रम् ]
तंत्र लिङ्गी तावदुच्यते-धर्मविशिष्टो धर्मी साध्यः, स एव लिङ्गीति। न धर्मिमात्र साध्यम् ; पर्वतादिधर्मिणः सिद्धत्वात्। न ___ 'तथाऽवगतिदर्शनात' इत्येतद्विवृणोति-द्वितीयेति । ननु असकृदभ्यस्तविषये लिङ्गदर्शनादेवानुमितिः। यथा भोजनस्य तृप्तिसाधनत्वानुमितिः । बुभुक्षितः अन्न पश्यन्नेव भोक्तुमारभते। न हि तत्र मध्ये पूर्वानुभूतान ग्रुपस्थितिपूर्वकं व्याप्तिस्मरणमनुभवसिद्धं इति चेदाह –यत्रापीति। सञ्चत्यतेस्पष्टमनुभूयते। एवञ्च अभ्यासबलात् जायमानं ज्ञानं सुशीघ्र जातत्वात् अनुमितिवन भासते। वस्तुतस्तु स निर्णयः अनुमितिरूप एवेत्यर्थः ॥
केचनेति। 'एके तावद्वर्णयन्ति, लिङ्गलिङ्गिसम्बन्धस्मृतिरनुमानमिति' इति न्यायवार्तिकं, वाचस्पतिना 'आचार्यदेशीयमतमाह-एके तावदिति' इत्यव. तारितं द्रष्टव्यम् ॥
तत्रेति। लिङ्गी इत्येतयाख्यायते इत्यर्थः। धर्म:--साध्यः, धर्मी
* एतदारभ्य 312 पुटे * एवंचिह्नितान्तो भागः स्त्र पुस्तके लुप्तः ।