________________
308
व्याप्तिस्वरूपपरीक्षा
न्यायमअरी
(बौद्धमते सर्वथा व्याप्तिग्रहः न संभवति] अपि च-व्यावृत्त्योलिङ्गलिङ्गित्वं, प्रतिबन्धश्च वस्तुनोः ।
विकल्पैर्ग्रहणं तस्य, कथं सङ्गच्छतामिदम् ? ॥ १८१ ॥ उक्तं चैतत् प्रथम एवाहिके (पु. 88-89) इत्यलं प्रसङ्गेन । तस्मादनुमितिहेतुः सम्बन्धः साहचर्यमिति सिद्धम्। न तु शौद्धोदनिशिष्यपरिकल्पितमुभयमप्येतत् ॥
[साहचर्य तु सहजमेव] यत्त्वभ्यधीयत परैः किमधीनमस्य
तत्साहचर्यमिति तत्र विधिःप्रमाणम्। तादात्म्यतजननगरपि चैष तेषां । तुल्योऽनुयोग इति किं विफलैः प्रलापैः १८२ ॥
[अनुमितिकाले व्याप्ते: स्मरणमेव, न त्वनुभवः] नियमो व्याख्यातः। स्मृतेरिति कोऽर्थः ? उच्यतेनियमो हि गृहीतोऽङ्गं अनुमेयप्रमा प्रति । न नारिकेलद्वीपस्थो धूमादग्निं प्रपद्यते ॥ १८३ ॥ साध्यानुमितिवेलायां न चास्ति नियमग्रहः। , नियमग्रहकाले च न साध्यमनुमीयते ॥ १८४ ॥
साहचर्य. साहचर्यरूपः सम्बन्ध इत्यन्वयः। विधिः-नियतिः । वढेरोष्ण्यं, न जलस्येति कुतः ? इत्याक्षेपतुल्योऽयमिति भावः । अन्यथा--- अनयोरेव तादात्म्यतदुत्पत्ती, नान्ययोरिति कथम्? इत्येषः अनुयोग: तेषामपि तुल्य एवेति-'यश्चोभयोस्समो दोषः' इतिन्यायः स्मर्तव्य इति भावः ॥ - नारिकेलद्वीपस्थ इति । सर्वथाऽननुभूत वह्निधूमस्वरूप इति यावत् । अस्तु व्याप्तेः ज्ञाताया एवानुमितिजनकत्वम् । व्याप्तिज्ञानं स्मरणरूपमेवेति कुतोऽयं निर्बन्धः? इत्यत्राह-साध्येति । न नास्तीति । न हि तदानीं व्यापक: वह्वयादिः प्रत्यक्षः। यत्र च महानसादौ व्याप्लेग्रहणं, तत्र न वयाद्यनुमितिः। अतोऽगत्या पर्वते वयनुमितिकाले व्याः स्मरणमेवेति ॥