________________
साहचर्यस्यैव व्याप्तिगमकत्वम्
[कणादसूत्र समर्थनम् ]
विरोधिनोः कथं साहचर्यमिति चेत्; सदसतोर्गम्यगमकभावात्, विरोधिनोरेकतरदर्शनात् अन्यतरस्याभावोऽनुमीयते । भावाभावयोश्च साहचर्य तयोरस्त्येव । कणादसूत्रे कार्यादिग्रहणं चोपलक्षणम् ॥
आह्निकम् २]
अन्येषामपि हेतूनां भूम्नां जगति दर्शनात् । सूर्यास्तमयमालोक्य कल्प्यते तारकोदयः ॥ १७५ ॥ पूर्णचन्द्रोदयाद्बुद्धिरम्बुधेर वगम्यते । उदितेनानुमीयन्ते सरितः कुम्भ' योनिना' ॥ १७६ ॥ शुष्यत्पुलिन पर्यन्तविश्रान्तखगपङ्क्तयः । पिपीलिकाण्डसञ्चारचेष्टानुमितवृष्टयः ॥ ९७७ ॥ भवन्ति पथिकाः पर्णकुटीर करणोद्यताः । अन्येऽपि 'सौगतगीत प्रतिबन्धद्रयोज्झिताः ॥ १७८ ॥ कियन्तो बत! गण्यन्ते हेतवः साध्यबोधकाः । लोकप्रसिद्धाः तादात्म्यतदुत्पच्यवधीरणात् ॥ १७९ ॥ डिम्भवाकसदृशं स्वमत्या तत्समर्थनम् । अतश्च -- तत्स्वभावस्तत्कार्यमित्यादि व्यसनमात्रकम् ॥ १८० ॥
307
केषामुपलक्षणमित्यत्राह -अन्येषामिति । अन्येषां - कारकहेतुभावरहितानामपि हेतूनां ज्ञापक हेतूनाम् । शुप्यत्पुलिन .... पङ्क्तयः इति विधेयविशेषणम् । अगस्त्योदये जलाशयाः प्रसन्ना भवन्तीति प्रसिद्धम् । प्रसादश्च जलस्यानाविलत्वं, तच्च वृष्टिशान्तौ भवेत् । अतः अगस्त्योदये सति वृष्टयु परतिनुमीयत इति तात्पर्यम् ॥
सञ्चाररूपा चेष्टा इत्यर्थः । अन्येऽपीति । किं बहुना ! तादात्म्यतदुत्पत्तिरहिताः केवलसाहचर्यमात्रशालिनो हेतवो बहवो वर्तन्त एव । कृत्तिको दया हिण्युदयादिरूपा इति तादात्म्यतदुत्पत्तिभ्यामेव व्याप्तिसिद्धिरिति न युक्तमिति सारम् । उपसंहरति - अतश्चेति ॥
1 योनिनः - ख.
2 न्योऽपि - क.
20*