________________
306 व्याप्तिस्वरूपपरीक्षा
[न्यायमञ्जरी न च कथञ्चित् तत्कार्यत्वं कथञ्चिदतत्कार्यत्वं च धूमस्योपपन्नम् । सर्वात्मकस्य तदन्वयव्यतिरेकानुविधायि'प्रभवत्वात् ॥ अथ सर्वात्मनाऽपि तत्कार्यत्वे
धूमत्वमात्रमेवाग्निसहचारीति मन्यसे । सहचारित्वमेवास्तु तदुत्पत्तिकथा वृथा ॥ १७४॥
सिद्धान्ते कार्यलिङ्गकानुमानमुपपद्यत एव] ननु भवद्धिरपि कार्यानुमानमङ्गीकृतमेव । यथा शेषवत्' इति व्याख्यास्यते । यथाऽऽह कणवतः-'कार्य कारण संयोगि समवायि विरोधि चेति लैङ्गिकम्' (वै.सू. 9-2-1) इति-न-साहचर्योपलक्षणार्थत्वात्। धूमाग्न्योर्नदीपूरयोर्वा न कार्यकारणभावात् गमकत्वं यथोक्तन्यायेन ; अपि तु नित्यसाहचर्यान्नियमादेवेति ॥ . तन्तुमित्यर्थः। सर्वात्मकस्य-यावद्वस्तुस्वरूपस्य । - धूमस्वरूपमेव सर्व अन्वयव्यतिरेकाधीनवह्निहेतुकम् । न तत्रांशभेदो दृश्यते ॥ . .
अपिः भिन्नक्रमः ; तत्कार्यत्वेऽपीत्यन्वयः । धूमत्वेत्यादि। अयमर्थः--- धूमस्वरूपमात्रस्यैव वह्वयधीनत्वेऽपि धूमत्वाकारमानं वहिसहचरितं, न कटुत्वाद्याकारोऽपि । यस्मिन्नंशे सहचरितो गृह्यते, तदंशमात्रम्य कार्य सिद्धिः, नातिरिक्तस्येति चेत् एवं सति साहचर्यनियम एवं शरंणीकर्तव्य इति तेनैव व्याप्तिनिश्चयः। कार्यकारणभावनिर्णयार्थ भवताऽपि तस्यावश्यापेक्षणीयस्वादिति भावः ॥
कणवतः-कणादः । अनेन समानतन्त्रसंवादः प्रदर्शितः । साहचर्येति। यद्यपि कार्यानुमानमस्त्यस्माकं वस्तुस्वरूपपर्यालोचनया। गमकत्वं तु न कार्यकारणभावस्य, किन्तु तयोस्साहचर्यस्यैवेति न विरोध इत्यर्थः ॥
उपर्युक्तकणादसूत्रे विरोधिनोऽपि लिङ्गत्वमुक्तम् । तत् कथं घटताम् ? विरोधिनोस्साहचर्यासंभवादिति शङ्कते-विरोधिनोरिति । उक्तमेवोपपादयति-विगेधिनोरिति । 'परस्परविरोधे हि न प्रकारान्तरस्थिति:' इति न्यायादित्यर्थः। तयोः भावाभावयोः इत्यन्वयः ॥
1प्रस-क.