________________
बौद्धोक्त कार्यानुमाननिरास:
305
समानधर्ममूलान्वयादिव्यवहारोपपत्तेः तत्र न सूत्रकारेण सामान्यग्रहणं कृतम्। अपि तु साधम्यग्रहणमुपात्तम् -" उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः 39 66 'साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम् " इति । तेन विनाशोत्पादधर्मयोः साध्यसाधनभावात्, तयोश्च भेदात् अनित्यः शब्दः कृतकत्वादिति न स्वभावहेतुरिति सिद्धम् ॥
किम् २]
,
[ कार्यानुमानमपि न संभवति ]
कार्यहेतुरपि न संभवति । भवतां हि पक्षे क्षणयोर्वा कार्यकारणभावो भवेत् ? सन्तानयोर्वा १
क्षणयोर्नेति वक्ष्यामः क्षणभङ्गनिराकृतौ । संभवन्नपि 'दुर्लक्ष:' सूक्ष्मत्वाच्च तयोरसौ ॥ १७३ ॥
धूमाग्निसन्तानयोस्तु अवास्तवत्वादेव नास्ति कार्यकारणभावः । अर्थक्रियाकारित्वमेव वस्तुत्वम् । यदि धूमः कार्यत्वादनलमनुमापयेत् — कटुमलिनगगनगामित्वादिधर्मैरपि तस्य गमको भवेत् ।
च पदानि अभिन्नानि, उच्चारणभेदमात्रं, तदा प्रवृत्तिनिमित्तमपि तदनुरूपमेव वक्तव्यम् । तदादाय व्याप्युपपत्तिः । सत्ताद्वारकपक्षे च यस्या अनुगतत्वं तस्याः न व्यावर्तकत्वं यस्याश्च व्यावर्तकत्वं न तस्या अनुगतत्वमिति दोष: 'दुर्वार एव । सोपानान्तरकल्पनं परमवशिष्यत इति ॥
संभवन्नपीति । पूर्वोत्तरार्धयोः कार्यकारणभाव इति वर्तते । अथवा 'असौ' इति धर्मी । तयोः - क्षणयोः ॥
"
'धूमाग्निसन्तानयोः - धूमसन्तानस्याग्निसन्तानस्य च । अवास्तवत्वात्मिथ्यात्वात् । अतिरिक्तस्य वास्तवस्य सन्तानस्याभावादिति भावः । अथैति । न्यायबिन्द स्वलक्षणस्वरूपमभिधाय ' तदेव ( स्वलक्षणमेव ) परमार्थसत् 'अर्थक्रियासामर्थ्य लक्षणत्वाद्वस्तुनः ' इति खलुक्तम् । सन्तानश्च न स्वलक्षणरूपः । कटुत्वं- श्वासरोधकत्वम् । धर्मैरिति — वैशिष्टयं तृतीयार्थः । तस्य - वह्नेः । कार्य यादृशं दृष्टं, तादृशमेव कारणं हि तदनुमापयेत् । यथा नील: पटो नीक
1 दुर्लक्ष्य:- ख. NYAYAMANJARI
20