________________
304 व्याप्तिस्वरूपपरीक्षा
न्यायमक्षरी - अथैक एव धर्मः सर्वभावसंबन्धी इध्येत, तर्हि
एकभावसमुत्पादे सर्वोत्पादः प्रसज्यते ।
एकप्रलयकाले च सकलप्रलयो भवेत् । १७० ॥ तस्मात् सत्तापक्ष एव वरम् ॥
[धर्मिभेदेऽपि धर्माणामनुगतत्वं युक्तम् ] नैतदेवम्-धर्मिभेदेऽपि धर्माणां तुल्यरूपाणां अवभासात् ॥ न घटादिस्वरूपं हि नाश इत्यवकल्पते। येनानन्वयदोषः स्यात् तद्भदोपनिबन्धनः ॥ १७१ ॥ एकत्वमपि धर्मस्य नास्ति सर्वेषु धर्मिषु। येनैकध्वंससमये सकलध्वंससङ्करः॥ १७२ ॥
भिन्नत्वेऽपि च धर्माणां समानरूपत्वेनावभासमानत्वात् अन्वयग्रहणादि कार्या'विरोधः। अत एव सामान्यमन्तरेणापि ---तर्हि घटपटादिषु सर्वत्र विद्यमानं कृतकत्वं एकमेवेति, घटे उत्पन्ने घटगतकृतकत्वस्य उत्पत्त्या, पटगतकृतकत्वस्य तस्य चाभेदात् पटगतकृतकत्वमप्युत्पन्नमेवेति, एकस्य उत्पादे सर्वोत्पादः। एवं विनाशेऽपि । यद्यपि केवलस्य सत्वस्य सर्वत्रैक्यात व्यावर्तकत्वं न संभवति, अथापि तत्सामअयधीनस्वरूपविशेषणभेदात विशिष्टवेषेण व्यावर्तकत्वसंभवः। व्याप्तिस्तु' सामान्यात्मनेति गत्यन्तराभावादङ्गीक्रियते- इति आइत्यार्थः ॥
तद्भेदः---धर्मिभेदः। एकत्वमपि नेति। 'तुल्यरूपाणां धर्माणां' इति ह्यनुपदमुक्तम् । एतदेवोपपादयति-भिन्नत्वेऽपीत्यादि। अयं भाव:यद्यपि कृतकत्वादयो धर्माः आश्रयभेदेन भियन्त एव, अतः न एकस्योत्पनी सर्वोत्पत्तिप्रसङ्गादिः। व्याप्तिस्तु सर्वेषां कृतकत्वानां अनुगतेक रूपेण संभवः । अनुगतरूपं तु सर्वत्र जातिरेवेति न निबन्धः। घंटवत्त्वेन रूपेण निखिलानां घटवद्भूतलानामुपस्थितौ हि घटवत्त्वमेवानुगतं रूपं, तच्च न जातिरूपम् । एवं प्रकृतेऽपि यत्र यत्र कृतकपदं प्रयुज्यते, तत्र सर्वत्रापि न कृतकपदभेदः । सर्वथा भेदे सति ककारादीनामप्यानन्त्यात्, सर्वो व्यवहारः उच्छिंद्येत। यदा
कार्य-व