________________
आबिकम् २ बौद्धोक्तस्वभावानुमाननिरासः
303 प्रत्ययेनाभिधानात्-तस्य गुणस्य हि भावात् द्रव्ये तच्छब्दनिवेश इति । अभावेऽपि अभावत्वमिति दर्शनात् । तस्मात् बुद्धिस्थविनाशयोग एवानित्यत्वम् ।
कृतकत्वमप्युत्पत्तियोग एव, न सत्ता । कारणोत्पादिताश्रयावच्छेदे तु तस्या इष्यमाणे धर्मिण एव तदवच्छेदो भवत्विति किं सोपानान्तरेण ॥
[वस्तुभेदेन धर्मा अपि भियन्त एवेत्याक्षेपः] .. ननूत्पादविनाशाख्यं न धर्मद्वयमन्वयि ।
यद्धटे, नास्ति तच्छब्दे ; यच्च शब्दे, न तद्धटे ॥ १६९ ॥
गुणस्य-धर्मस्य । द्रव्ये-वस्तुनि। वस्तुनि विद्यमानं कञ्चन धर्म निमित्तीकृत्य शब्दस्य प्रवृत्त्या-स धर्मः प्रवृत्तिनिमित्तमित्युच्यते। अभावे च अभावत्वधर्ममादाय अभावशब्दस्य प्रवृत्तिरिति को दोष इत्यर्थः॥ .
कारणेत्यादि । कृतकत्वं हि नित्यात् धर्मिण व्यावर्तयति। तत्र धर्मिनिष्ठायाः . सत्तायाः कारणोत्पादितघटादिनिष्टत्वमुपपाद्य, तादृशविलक्षणस्य सत्तायाः नित्येभ्यः व्यावर्तकत्वापेक्षया कृतकत्वं साक्षाद्धर्मिणमेव नित्येभ्यो व्यावर्तयतु, न तु तदवच्छिन्नसत्तावच्छेदात्-इत्यर्थः। युक्तं चैतत्-नैल्यपदेन नीलवृत्तिधर्मबोधने प्राप्ते, नीले घटे विद्यमानः गन्धादिरूपः धर्मः न हिनीलपदेन बोधयितुं शक्यः। भवदृष्टया तु कारणो पन्नघटवृत्तिसत्तायाः कृतकत्वपदार्थ वे हि नीलवृत्तिगन्धधर्ममपि नीलत्वपदं बोधयतु। अत: तत्तच्छब्दप्रवृत्तिनिमित्तभेदनिर्वाहाय धर्माणां साक्षादेव व्यावर्तकत्वं एषितव्यम् ॥
नन्वित्यादि। कृतकत्वादीनां साक्षात् व्यावर्तकत्वं दुर्वचमेव । सर्वानुगतं सत्तादिधर्म न्यावर्त्य, तस्याः सत्तायाः विशिष्टवेषेणेतरण्यावर्तकत्वानङ्गीकारे, कृतकत्वं हि कृतके तटे पर्याप्तम् । एवं अनित्यत्वमपि। तथा च यत् कृतकं, तदनित्यं इति सामान्यव्याप्तिर्न स्यात् । व्यक्तिभेदेन धर्मभेदात्। सत्ता तु सर्वानुगता॥ ____ यदि च–कृतकत्वमपि कृतकेषु सर्वेषु अनुगतं एकमेव । कृतकस्य वस्तुनः यो भावः तद्धि कृतकत्वं ; तच कृतकेषु सर्वेषु स्यादेव। सर्वेषु तेषु कृतकशब्दप्रयोगे हि प्रवृत्तिनिमित्तमपि सर्वत्र स्यादेवेति ब्यासयुपपद्यत इत्युच्यते