________________
302 व्याप्तिस्वरूपपरीक्षा
[न्यायमरी ___अथोभयान्तपरिच्छिन्ना सत्ता साध्या, कारण निर्वाऽऽश्रयसमवायिनी च साधनमुच्यते-तदेतदघटमानम्-विनाशरूपस्यान्तस्य तदानीमविद्यमानत्वेन सत्तापरिच्छेदकत्वाभावात् ॥
बुद्धिस्थेनाथ तेनास्याः परिच्छेदोऽभ्युपेयते । शब्दस्यैव परिच्छदो विनाशेनास्तु तादृशा ॥ १६७ ॥ धर्मः समानकालोऽपि बुद्धयैव विषयीकृतः। तद्विशेषणतां याति तथा भाव्यपि यास्यति ॥ १६८ ॥
तदेवं विनाशी शब्द इति विशेषणविशेष्यभावसिद्धेः किं . सत्तासाध्यकल्पनया ॥
[अभावपदादपि भावप्रत्ययो युज्यत एव] यत्पुनरभिहितम् -अभावे भावप्रत्ययस्त्व'तलादिन स्यादिति तदत्यन्तानभिज्ञस्य चोद्यम् । शब्दप्रवृत्तिनिमित्तस्य तत्र भाव
समवायिनीति। सत्तेति आकृष्यते । अयं भावः-सत्ताया ऐक्येऽपि अवच्छेदकभेदाभेदव्यवहारः। पूर्वोत्तरावध्यवच्छिन्ना सत्ता अनित्यत्वम् । मध्यकालावच्छिन्ना सत्ता कृतकत्वमिति । तदानीं- वस्तुसत्ताकाले। उत्पत्तियद्यपि वस्तुन्यन्वेति । आद्यक्षणसम्बन्धस्यैवोत्पत्तिपदार्थत्वात् । सम्बन्धस्य च वस्तुनिष्ठत्वात् । विनाशस्तु वस्तुकाले नास्त्येवेति तस्य कथं सत्तापरिच्छेदकत्वम् ?
शङ्कते-बुद्धिस्थेनेति । समाधत्ते-शब्दस्यैवेति । तदानी. मसताऽपि वुद्धिस्थेन सत्त्वेन यदि विनाशस्य संस्पर्शः, तर्हि तादृशेनैव शब्देन विनाशस्य सम्बन्धोऽस्तु; किं बकबन्धनप्रयासेन ? 'अतीतेन धर्मिणा धर्मस्य यथा योगः, तथा भविष्यताऽपि धर्मेण धर्मिणोऽपि सम्बन्धोऽपि युज्यत एवेति । एवञ्चासमानकालिकयोरपि विशेषणविशेष्यभावसम्भवेन सत्तान्वेषणप्रयासो विफल एवेत्यर्थः ॥
तादि-ख.