________________
आह्निकम् २]
बौद्धोक्तस्वभावानुमाननिरास:
किमुच्यते ? किं च कृतकत्वम् ? इति । तत्रानित्यत्वं विनाशयोगः, उत्पत्ति योगश्च कृतकत्वम् । उत्पन्नस्य च भावस्य विनाशः; न तूत्पाद एव विनाश इति कथं साध्यसाधनयोरव्यतिरेकः ?
301
[परैः स्वभावहेतुकानुमानसंभवसमर्थनम् ]
अत्र चोदयन्ति - विनाशयोगे ह्यनित्यत्वे 'विनाशी' शब्द इति शिखरिण बुद्धि: स्यात्, नानित्य इति । एष्या च सा मिथ्या बुद्धिः, 'इव' कृशानुविशेषितस्य विनाशवतः शब्दस्य गृहीतुमशक्यत्वात् ॥ अभावेन हि धर्मेण तद्वत्ता' धर्मिणः कथम् ? अभावग्रहवेलायां धर्मिणोऽनुपलम्भनात् ॥ १६६ ॥
अनित्यत्वमिति च भावप्रत्ययः कथमभावे भवेत् ? विरुद्धत्वात् । तस्मादुभयान्तपरिच्छिन्ना वस्तुसत्ताऽनित्यत्वमुच्यताम् । कृतकत्वमपि सत्व, कारणोत्पादिता धारा सती कथ्यत इति । एवञ्च सत्तेव साध्यं साधनं चेति सिद्धं स्वभावहेतुत्वम् ॥
[सिद्धान्तिना तन्निराकरणम् ]
तदिदमनुपपन्नम् ।
साध्यसाधनयोस्तथात्वेनानवभासनात् ।
एवं ह्युच्यमाने शब्दः सत्तावान् सत्तावत्त्वादिति प्रतीतिः स्यात् । न चैवं दृश्यते । अपि तु - अनित्यः शब्दः, कृतकत्वादिति ।
11
विनाशेति । अनित्यत्वस्य विनाशयोगरूपत्व इति यावत् । सा बुद्धिः मिथ्या इत्यन्वयः । तत्र हेतुं सदृष्टान्तमाह - शिखरिण इति । यथा वा वह्निरूपविशेषणविशिष्टः पर्वतः दृश्यते, तथा विनाशविशिष्टः शब्दः न हि गृह्यते, विशेष्यस्य नष्टत्वात् । अत: अभावग्रहवेलायां धर्मिणः शब्दस्य नष्टत्वेन धर्मिणः अभावाख्येन धर्मेण कथं वैशिष्टयम् ? विशेषणविशेष्ययोः समकालत्वाभावात् । निकालयोरपि विशेषणविशेष्यभावे व्यवहारसामान्यमुच्छृङ्खलं स्यादिति । विरुद्धत्वादिति । अभावे भावसत्ताया इति शेषः । अन्तः - अवधिः । पूर्वोत्तरावधिद्वयमिति यावत् । वस्तुसामान्यस्य क्षणिकत्वात्-धारा इत्युक्तम् ॥ तथात्वेन - अभिन्नत्वेन यद्वा, सत्तारूपत्वेन ॥
३ ततो- ख.
1 विनाशे - ख.
2 एव- ख.