________________
300
व्याप्तिस्वरूपपरीक्षा
न्यायमचरी विना साधनधर्मेण साध्य'धर्मो ऽयमस्ति हि ।
दृष्टस्तयतिरेकेण तदात्मा चेति कैतवम् ॥ १६५ ॥ अथ विद्युदाद्यनित्यत्वादन्यदेव घटाद्यनित्यत्वं, यत् प्रयत्नानन्तरीयकत्वाभिन्नमुच्यते; तर्हि धर्मिभेदेन धर्माणां भेदेऽन्वयग्रहणानुपपत्तेः सर्वमनुमानमुत्सीदेत् । धूमाग्न्योस्तु कार्यकारणयोर्भेदात् युक्तं वक्तुम्-धूमस्याग्नौ प्रतिबन्धः, न त्वग्नेधूमे। इह तु साध्यसाधनयोरव्यतिरेकात् न तथा शक्यते वक्तुम् । तथाऽभिधाने वा नाव्यतिरेकः। सर्वथा तादात्म्यं वा त्यज्यताम , वृक्षत्वानित्यत्वाभ्यां शिंशपात्वप्रयत्नानन्तरीयकत्वे वा अनुमीयताम्', नान्तराऽवस्थातुं शक्यते॥
[स्वभावहेतुकानुमानान्तरनिराकरणम् यश्चायं-अनित्यः शब्दः कृतकत्वादिति स्वभावहेतुरुदाहृतःस कथं स्वभावहेतुः? इदं हि चिन्त्यताम्। · अनित्यत्वं नाम
साध्यहेत्वोः पक्षविशेषणत्वात् 'धर्मेण' इत्युत्कीर्तनम् । हि-यस्मात् साधनं विनापि साध्यं कुत्रचिद्वर्तते ततस्साधनन्यतिरेकेण वर्तमान: साधनस्वरूप इति वचनामात्रमित्यर्थः । अन्वयः-यत्र धूमस्तत्राग्निरितिरूपः । अनुपपत्तेः-व्यक्तीनां व्याप्तौ भानासंभवेन सामान्यत एव व्याप्तिग्रहणं वक्तव्यम् । न हि पर्वतीयधूमवयोः व्याप्तिग्रहणसंभवः । उत्सीदेत् । अयोगोलकादौ धूमव्यभिचारित्वेऽपि वढेः, तदतिरिक्तवढेरेव व्याप्तिरित्यपि वक्तुं शक्यतया सदसद्धेतुविभागस्य दुर्वचत्वादप्यनुमानप्रामाण्यमुत्सीदेदित्यपि बोध्यम् । धूमे इत्यनन्तरं इतिकरणं द्रष्टव्यम् ॥
__उदाहृतः-न्यायविन्द्वादौ (3-11) इति शेषः। ननु अनित्यत्वादयो हि स्वरूपरूपाः । अतः तस्य स्वभावहेतुत्वमिति चेत्-तत्राह-इदं हीति । कथमिति। धर्माणां स्वरूपरूपत्वेऽपि तन्निरूपकभेदाद्वाऽवश्यं भेदः एषितव्यः, नो चेत् सर्वपदानां पर्यायतैव स्यादिति भावः ॥
-
धर्मा-ख.
स्नना-ख.
येताम्-ख.