________________
299
आह्निकम् २] तादात्म्यतदुत्पत्त्योः नियमे पर्यवसानम् वेनापि तत्साध्येत। ततश्च सपशव्याप्तयव्याप्तिभ्यां कृतकत्वप्र'यत्नानन्तरीय'कत्वयोर्यो भेदः उक्तः स हीयेत ॥
[व्यातेरद्विष्ठत्वम् , तादात्म्यस्य नियमे पर्यवसानं च] ननु च! अन्यः संबन्धः, अन्यश्च प्रतिबन्धः। द्विष्ठः संबन्धः, प्रतिबन्धस्तु परायत्तत्वलक्षणः। तत्र शिंशपात्वं वृक्षत्वे प्रतिबद्धम, न वृक्षत्वं शिंशपात्वे । प्रयत्नान'न्तरीयकत्वमपि अनित्यत्वे नियतम्, न त्वनित्यत्वं तत्रेति । तथा धूमस्याग्नौ प्रतिबन्धः, न त्वमेधूमे । सत्यमेवम् - किन्त्वेवमुच्यमाने. नियम एवाङ्गीकृतो भवेत् , न तादात्म्यम् । तादात्म्ये हि यथा शिंशपा शिंशपां विना न दृश्यते तथा वृक्षत्वमपि शिंशपारहितं न दृश्येत', दृश्यते च खदिरादौ शिंशपारहितं वृक्षत्वं, विद्युदादौ च प्रयत्नान'न्तरीयकत्वरहितमनित्यत्वमुपलभ्यत इति कथमभेदः ?
(4-201) प्रयत्नानन्तरकालोत्पन्नत्वम् । अस्य स्वभावानुमानरूपत्वं प्रमाणवार्तिकधर्मोत्तरटीकादौ (न्या. बि. टी. 2-21 ) उपपादितम् । कृतकत्वेत्यादि। शब्दे अनित्यत्वेन कृतकृत्वसाधने सपक्षव्याप्तं, तत्रैव प्रयत्नानन्तरीयकत्वसाधने तत सपक्षे विद्युदादौ अव्यातं इति भेदः तत्र
तत्रोक्तः ॥
- ननु ! एकसम्बन्धिज्ञानविधया हेतोस्साध्योपस्थापकत्वेऽपि हेतुसाध्ययो. वर्तमानः सम्बन्धः न संयोगादितुल्यः; येन हस्तिदर्शने हस्तिपस्मरणवत्, हस्तिपदर्शने हस्तिस्मरणवच्च, धूमदर्शनेन वयपस्थितिवत्, वद्विदर्शनेन धूमोपस्थितिराशङ्कयेत । किन्तु धूमादेव वह्नयनुमितिः, न तु वढेधूमानुमिति. रिति संप्रतिपन्नम्। एवञ्च प्रकृतेऽपि शिंशपात्वेन वृक्षत्वमात्रमेव सिद्धयेत्, न तु वैपरीत्येनापीति शङ्कते-नन्विति। न विति। विद्युदादौ व्यभिचारात इति हेतु: । पूर्वपक्ष्युक्तं व्याप्तेः संयोगादिवलक्षण्यमङ्गीकरोति-सत्यमिति। शिंशपारहित-शिंशपावं विनेति यावत् ॥
लना-ख.
' दृश्यते-ख.