________________
298 व्याप्तिस्वरूपपरीक्षा
न्यायमञ्जरी न हि शिरःपाण्यादय एव पुरुष इति तद्हणेऽप्यपुरुषारोपः कामं भवेत्। इह वृक्षत्वशिंशपात्वयोरभेदात् शिंशपात्वग्रहणे सति का कथा वृक्षेतरसमारोपस्य!
अपि च वृक्षत्वग्रहणे सति सामान्यधर्मग्रहणात् विशेषानध्यवसायात् कदाचिदर्शि'शपागेपः स्यात् । न तु शिंशपात्वग्रहणे सति अवृक्षत्वसमारोपो युक्तः॥
प्रमातुः शिंशपात्वं हि यस्य प्रत्यक्षगोचरः। परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम् ॥ १६४॥
किञ्च साध्यसाधनयोरव्यतिरेकात् यथा शिंशपात्वे च वृक्षत्वमनुमीयते तथा वृक्षत्वेनापि शिंशपात्वमनुमीयेत, तादात्म्याविशेषात् । तथा च प्रयत्नानन्तरीयकत्वेनानित्यत्वं साध्यते, तद्वदनित्य- ' मेव गतिः। भूतले घटोऽस्ति चेत् तन्न निषेध्यम्, नास्ति चेत् निषेधो व्यर्थः, अतश्च भूतले घटो नास्तीति प्रतीतिप्रयोगादयो विलुप्येरन् । अतः निषेधस्थले सर्वत्र प्रतियोगिप्रसक्तिः अरोपात्मिकैव। वस्तुतः वयमपि दृष्टान्त: प्रकृताननुगुण इत्याह-तत्रेति। अभेदादिति। यद्यपि सिद्धान्ते वृक्षत्वं परा जाति:, पृथिवीत्ववत् ; शिंशपात्वं चापरा, घटत्ववत् इति तयो भेदः ; तथापि जाति मनङ्गीकुर्वतां स्वलक्षणमात्रं वस्तुस्वरूपमभिदधतां वृक्षत्वशिंशपात्वयोरुभयोरपि स्वरूपानतिरेकात्तयोरभेद एव । · अत एव स्वरूपस्य तादात्म्यहेतुरिति व्यवहारः ॥
__ स्यात्-संभाब्येत। ननु घृतादौ घृतत्वे गृहीतेऽपि इयं पृथिवी ? उत जलम् ? इति संशयदर्शनात् विशेषग्रहणेऽपि संशयो युज्यत एवेत्यत्राहप्रमातुरिति। नातीव लौकिकमिति। अत्यन्तं लोकविरुद्धमित्यर्थः । घृतादौ कदाचिद्धनीभावस्य, कदाचिद्दवत्वस्य च दर्शनायुज्यते संशयः इयं पृथिवी? उत जलं इति। प्रकृते तु शिंशपां पश्यन् को वा तन वृक्षत्वे संशयीतेत्यर्थः॥
शिक्षकपुरुषप्रमादात् कदाचित् कस्यचित् सामान्यमनवगतमपि स्यादित्यत भाह-किश्चेति। तादाम्यहेतुः खलु अयम् । प्रयत्नानन्तरीयकत्वम्--
1 चिदपि शिं-क.
नना-ख.