________________
आह्निकम् २] तादाल्यतदुत्पत्योाप्तिगमकत्वं न संभवति 297
कार्य नाम कारणाधीनात्मलाभमेव भवति, न कारणानपेक्षमिति । तदुपलभ्यमानं तदनुमापयति-अग्निरत्र धूमात्-इति कार्यहेतौ तदुत्पत्तिः प्रतिबन्धः। एवं हि द्विविधं प्रतिबन्धमनुमेयाव्यभिचारनिबन्धनमनुक्ता केवलसाहचर्यनियममात्रवर्णनं यत् 'पादप्रसारिका सैवेति ॥
उच्यते-पादप्रसारिकैव साधीयसी स्थूलदृष्टिभिरवलम्बिता घरं, न सूक्ष्मदृष्टिभिः उत्प्रेक्षिताः तादात्म्यादिप्रतिबन्धाः॥
तादात्म्ये तावद्गमकाङ्गे हेतुसाध्ययोरव्यतिरेके गम्यगमकभाव एव दुरुपपादः। न खल्वगृहीतं लिङ्गं लिङ्गिप्रतीतिमाधातुमर्हति । तत्र लिङ्गबुद्धौ लिङ्गी प्रतिभासते? न वा? अप्रतिभासे तद्बद्धया तदग्रहणात् कथं तस्य तदात्मकत्वम् ? प्रतिभासे तु लिङ्गवत् प्रत्यक्ष एव सोऽर्थ इति किमनुमानेन ?
विपरीतसमारोपव्यवच्छेदार्थमनुमानमिति चेत्-तत्स्वरूपग्रहणे विपरीतारोपणावसराभावात् । न हि शिरःपाण्यादिविशेषदर्शने सति स्थाणुसमारोपः प्रवर्तते। तत्र तद्भेदादुपपद्येतागि । विशेषयोः तादात्म्यं सर्वसम्मतम्। विशेष सति सामान्यं यत्र घटत्वं, तत्र द्रव्यत्वमिति। इयं व्याप्तिधर्मयोः। एवं धर्मिणोर्व्याप्तिस्तु तादात्म्यमूलैव । यो घटः स द्रव्यमेवेति । यो विशेषात्मा स सामान्यात्माऽपि भवतीति यावत् ॥
तत्-कार्यम् । तत्-कारणम् । पादप्रसारिकैवेत्यादिः नर्मोक्तिः ॥
गमकाङ्गे-व्याप्तिनिश्चायकाङ्गभूते सति । अव्यतिरेके-सति चेति शेषः । उक्तमेवोपपादयति-न खल्विति । तदग्रहणात्-लिङ्गिन:-साध्यस्याविषयीकरणात् । प्रत्यक्ष एवेति। उभयोरभेदादित्यर्थः । एतदुक्तं भवतिहेतुसाध्ययोरभेदे, पक्षे हेतुदर्शनदशायामेव हेत्वभिन्नं साध्यमपि सिद्धमेव । तयोर्भेदे च तादात्म्याध्याप्तिरिति भग्नमेवेति ॥
विपरीतेति । अवृक्षत्वव्यवच्छेदार्थमित्यर्थः । ननु तत्र अवृक्षत्वमस्ति चेत् तन्न निषेढुं शक्यम् , नास्ति चेत् निषेधो व्यर्थ इति चेत्तत्रोक्तम् - समारोपेति । अरोपितं तत् ग्यवच्छिद्यत इत्यर्थः । अभावस्थले सर्वत्रेय
त्तिप-व.
प्र-ख.