________________
296 म्याप्तिस्वरूपपरीक्षा
न्यायमभरी ['नियमस्मृतेः' इत्यस्य व्याख्यानम् ] नियमस्मृतेरिति। विवियतां! कोऽयं नियमो नाम ? व्याप्ति:-अविनाभावः-नित्यसाहचर्यमित्यर्थः ॥
नियमो नाम क:? आह - नैतावत्येव विरन्तुमुचितम्। तस्य तदविनाभावित्वमित्यत्र हि निमित्तमन्वेषणीयं तार्किकैः ॥
[तादात्म्यतदुत्पत्तिभ्यां व्याप्तिनिरूपणम् ] तच्च तादात्म्यतदुत्पत्तिरूपमीक्षितवन्तो भिक्षवः। यो हि . यदात्मा भावः स कथं तमुत्सृजति ? वृक्षात्मिकैव हि शिंशपा तेन वृक्षवमनुमापयति। सोऽयं स्वभावहेतुरुच्यते, वृक्षोऽयं शिशपा- . त्वात् इति। तत्र तादात्म्यं प्रतिबन्धः ॥ . गृहीतायाः व्याप्तेः स्मृतौ उद्बोधकं खलु वक्तव्यम् । 'एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्' इतिविधया धूमज्ञानं स्वाविनाभावसम्बन्धिनः वहः स्मारकं भवतीति खलु व्याप्तिस्मृतिर्वक्तव्या। तत्र यदि धूमज्ञानमेव स्मृतिरूपं, तर्हि वह्निज्ञानमपि तादृशमेव स्यात् । तथा च अनुमिति: स्मृतिरूपा वक्रव्या तञ्च न युक्तमेव। पर्वते वढेः पूर्वमननुभूतत्वेनेदानीं स्मृतेरयोगात् । अत: धूमस्मरणान् न पर्वते वह्नयनुमितिनिर्वाहः ॥
एतावत्येव एवमुत्तरदान एव। तार्किकैरिति। न हि श्रद्धाजडास्तार्किका इति भावः ॥
भिक्षवः-धर्मकीर्त्यादयः। तथोक्तं प्रमाणवाति के धर्मकीर्तिना..... 'कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमा, दर्शनान्न नदर्शनात्' इति। अयमर्थ:--अविनाभावस्य नियमः-निर्णयः, नियताविनाभावो वा, नियामकात्-तादृशनियमहेतुभूतात् कार्यकारणभावात् स्वभावाद्वा भवति। न तु कदापि अन्वयदर्शनात् व्यतिरेकदर्शनाद्वा भवति । व्यक्तीनामनन्तत्वेन असर्वज्ञदुज्ञेयत्वेन अन्वयव्यतिरेकसहचारग्रहस्यासंभवादिति भावः। यो हि भावः-पदार्थः यदात्मा-यादृशस्वभावकः । तं--- . स्वभावम् । तादात्म्यं प्रतिबन्धः-'द्रव्यं घटः' इत्यादी सामान्य