________________
आदिकम् २] हेतोः पञ्चलक्षणकत्वोपसंहार:
295 संशयाधायी पक्षधर्मान्वयव्यतिरेकोपपत्तिभ्रमेण हेतुरिति प्रयुज्यमानः सत्प्रतिपक्षो भवतीति प्रकरणसमहेत्वाभासचिन्तायां विस्तरेण निरूपयिष्यते। पुरुषप्रशाप्रमादमूलत्वाञ्च वस्तुनो यात्मकत्वमिति तत्रैव वक्ष्यते ॥
लक्षणान्तरमतः कथनीयम्
प्रत्यनेकविकलत्वमवश्यम् । तेन लिङ्गमनुमानपथक्षाः
पञ्चलक्षणकमभ्युपजग्मुः ॥ १६३॥ . पञ्चलक्षणकाल्लिङ्गात्' इतिपद्यस्थ गृहीतात् 'इतिपदव्याख्यानम् ]
पञ्चलक्षकाल्लिङ्गादिति व्याख्यातम्। व्याप्तिग्रहणसमयसमधिगतस्वरूपस्यापि लिङ्गस्य पुनर्मिणि क्वचिदनवधृतवपुगे नास्याध्यवसांयसाधनत्वमिति द्वितीयं लिङ्गदर्शनपेवापेक्षणीयमिति गृहीतादित्युक्तम्। लिङ्गं हि ज्ञापकं ; न चक्षुरादिवत् कारकम् । शापकस्य चायं स्वभावः, यत् शतं अनु ज्ञापयतीति। व्याप्तग्रहणकालगृहीतमेव व्याप्तिवत् स्मर्यमाणतयैव लिङ्गं लिङ्गिनं गमयिष्यतीति चेन्न-ग्रहणमन्तरेण व्याप्तिस्मृतेरप्यभावात् *'इत्यलं' प्रसङ्गेन ॥ वस्तुनः कथं यात्मकत्वम् ? इत्यत्राह-पुरुषेति । वस्तुनः एकात्मकस्यैव पुरुषबुद्धिदोषवशात् यात्मकत्वप्रतिभासमात्रमित्यर्थः। तत्रैव-हेत्वाभासचिन्तायामेव (११ भाढिके)। लक्षणान्तरं-असत्प्रतिपक्षस्वरूपम् ॥
व्याप्तीत्यादि । महानसादौ वह्निव्याप्यत्वेन गृहीत स्यापि धूमस्य, पुनः कालान्तरे पर्वतादौ ग्रहणमन्तरा न वह्नयनुमापकत्वं, ज्ञायमानं हि लिङ्गमनुमितिकरणम् , न स्वरूपसत्- इत्यतो गृहीतात् इत्युक्तमित्यर्थः। क्वचित् धर्मिणि-पक्षे। अनवधृतवपुषः-अनवगतस्येति यावत् । अध्यवसायःअनुमितिः। द्वितीयं-व्याप्तिग्रहणकालिकं प्रथम, पक्षधर्मताज्ञानकालिकं द्वितीयमित्यर्थः। अपेक्षणीयमेव इत्यन्वयः। यथा महानसादौ गृहीता व्याप्तिः कालान्तरे स्मृतैवानुमितिहेतुः, तथा धूमोऽपि स्मृत एवानुमितिहेतुः कुतो न स्यादित्याक्षिपति-व्याप्तीति । समाधत्ते-ग्रहणमिति। पूर्व
* 293 पुटे द्रष्टव्यम् । त्रिलक्षणकलिकाविनामावामिप्रायेण स्वदुक्तमेतदित्यल-ख.