________________
294
हेतुस्वरूपविचार:
न्यायमक्षरी
असत्प्रतिपक्षत्वमपि हेत्वङ्गमेव] यत्र तु तुल्यबले द्वे अनुमाने निपततः स सत्प्रतिपक्षस्य विषयः इति। असत्प्रतिपक्षत्वं पञ्चमं लिङ्गलक्षणमुपदिश्यते ॥
[परस्परविरुद्धहेतुद्वयसमावेशो भवत्येव ] ननु ! वस्तूनामद्विरूपत्वात् कथमेकत्र धर्मिणि परस्परविरुद्ध- . धर्मद्वयाक्षेपिप्रयोजकहेतुद्वयसन्निपातो भवेत् । अत एव विरुद्धाव्यभिचारी नाम न हेत्वाभास इहेष्यते। तदतिदुर्लभः सत्प्रतिपक्षी हेतुरिति कमपहर्तुं पञ्चम मिदं हेतुलक्षणमुपदिश्यत इति-- . सत्यमेवम्-किन्तु संशयबीजं यत् विशेषाग्रहणं, तदन्यतरनिर्णयाय भ्रान्त्या प्रयुज्यमानं सत्प्रतिपद्यते -स्थाणुरयं पुरुषधर्मानुपलब्धेः, ' पुरुषोऽयं स्थाणुधर्मानुपलब्धेरिति । अन्यतरविषयानुपलंभ एवायं .
यत्रेति । नन्वनुपदमेवोक्तं तुल्यबलानुमानद्वयामेलनं, इदानीमस्ति तदित्युच्यत इति कथमिदम् ? उच्यते-अनुमानयोस्तुल्यबलत्वे. बाध्यबाधकभावो नास्तीत्येतावदेवोक्तम् , न तु तादृशानुमानासंभवः। ननु उभयोमलने परस्परबाधः कथं न स्यादिति चेत्-न तत्र परस्परबाधः---किन्त्वनिर्णय एव । भाष्यकारोऽप्याह-'उभयपक्षसाम्यात् प्रकरणसमो निर्णयाय न प्रकल्पते' (न्या. भा. 1-2-7) इति ॥
धर्मद्वयाक्षेपि-साध्यद्वयसाधनम् । अत एव-तादृश हेतुद्वयमेलनासंभवादेव। प्राचीनबौद्वैः दिङ्नागादिभिः संशायकतया विरुद्धाव्यभिचारिणोऽङ्गीकारेऽपि, धर्म कीर्त्यादिभिरेव तन्निरासात् (न्या. बि. 3-110) सर्वसंप्रतिपन्नमेतदिति भावः । विरुद्धाव्यभिचारिशब्दश्च एवं निरुक्तः धर्मोत्तरेण-'विरुद्ध न व्यभिचरतीति विरुद्धाव्यभिचारी। विरुद्धश्चासौ अव्यभिचारी चेति वा' (न्या. बि. 3-110) इति । कन्दलीकारोऽपि ‘विरुद्धं प्रत्यनुमानं न व्यभिचरति---- नातिवर्तते' (243 पु.) इत्याह । स्वसाध्यबिरुद्धसाधकहेतुमानिति फलितार्थः । इदं विस्तरशः कन्दल्यां द्रष्टव्यम् । कमपहर्तु-कं दोषं वारयितुम् । भ्रान्त्येति। अन्यतरधर्मस्य सद्भावावश्यकात् धर्मद्वयस्याप्यनुपलंभ: दोषमूलत्वात् भ्रान्तिरित्युच्यते । तथा च वस्तुन: अध्यात्मकत्वेऽपि अनुप- . लंभस्य संभवात् , विशेषादर्शनात् संशयादिप्रसक्तिरिति भावः। अस्तु सर्व ।