________________
आह्निकम २] हेतदोषा:
293 एवञ्च यदुच्यते-बाधाविनाभावयोर्विरोधादिति-तत्कथञ्चिशुक्तं, कथञ्चिदयुक्तम् । पञ्चलक्षणके लिङ्गे यः परिसमाप्तोऽविनाभावः तत्र नास्त्येव बाध इत्येवं युक्तमेतत्। त्रिलक्षणकलिङ्गाभिप्रायेण त्वयुक्तमिति ॥
[भागमबाधितो हेतुः] * एवमागमबाधितोऽपि हेतुर्द्रष्टव्यः। यथा-ब्राह्मणेन सुरा पेया अदुष्टत्वात् , क्षीरवदिति ॥
[अनुमानेनानुमानस्य विरोधासंभव:] ननु! प्रत्यक्षागमविरुद्धवदनुमानविरुद्धमनुमानं कस्मानोदाहियते ? असम्भवादिति ब्रूमः-न हनुमानविरुद्धमनुमानमवकल्पते । अनुमानयोहि तुल्यबलयोर्बाध्यबाधकभावः ? अतुल्यबलयो ? तत्र तुल्यबलयोस्तुल्यबलत्वादेव न बाध्यबाधकभावः। समाने हि वीर्य किं कस्य बाधकम् ? बाध्यं वा ? अतुल्यबलत्वपक्षेऽपि- यत्कृतमल्पबलत्वमन्यतरस्य तत एव तदप्रामाण्यसिद्धः किमनुमानबाधया ? तस्मान्नानुमानविरुद्धमनुमानं बुद्धयामहे ॥
अत एवानुमान विरुद्धमनुमानमपश्यता भाष्यकारेणोक्तम्'यत्पुनरनुमानं प्रत्यक्षागमविरुद्ध न्यायाभासस्सः' (न्या. भा. 1-1) इति ॥
कथंचिदित्यादि। 'बाधाविनाभावयोर्विरोधः' इति सामान्यत उक्तिर्न दुष्यति ; पञ्चलक्षणके हेतावुभयोमेलनासंभवात् ; त्रिलक्षणक हेत्वमिप्रायेणोच्यते चेत् वह्वयनुष्णत्वानुमानादावुभयं संभवतीति न विरोध इत्यर्थः ॥
आगमः-'ब्राह्मणो न सुरां पिबेत् ' इत्यादिः ॥
यत्कृतमिति। प्रत्यक्षेणागमेन वोपोदलितत्वादेवानुमानस्य प्राबल्यं वक्तव्यम्। दौर्बल्यं च प्रत्यक्षागमविरोधादेव । तथा च प्रत्यक्षविरोधात् भागमविरोधाच्च प्राथमिकमनुमानं मृतमिति तेन किं कर्तुं शक्यम् ?
* एतदारभ्य 295 पुटे * अङ्कितमागपर्यन्तं ख पुस्तके नास्ति ॥