________________
न्यायमजत
292
हेतुस्वरूपविचारः न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्च ।। प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते ॥ १५९ ॥ स न साधयितुं शक्यः प्रत्यक्षे प्रतियोगिनि । साध्यापहारद्वारेण हेतुर्भवति बाधितः ॥ १६० ।। अबाधितानुमेयत्वमत एवास्य लक्षणम्। न तु हेतुरसिद्धोऽयं ज्वलने वृत्तिसंभवात् ॥ १६२ ॥..'
अबाधितत्वं न दुरवगमम् ] 'यत्त्वबाधितता ज्ञातुं शक्या नेति विकल्पितम्।। पक्षस्यापि महाभाग! कथं तां प्रतिपस्यसे ॥ १६२ . प्रयत्ने क्रियमाणेऽपि यदि बाधा न दृश्यते। नास्त्येवेत्यवगन्तव्यं व्यवहारो हि नान्यथा ॥ १६३॥ .
अतस्त्रिलक्षणेऽपि हेतौ बाधसंभवादबाधितत्वं रूपान्तर वक्तव्यम् ॥
एतदेवोपपाश्यति-न हेत्वित्यादि। अयमर्थः- वह्निरनुःणः कृतक स्वादित्यादौ यद्यपि पक्षे साध्यवत्त्वमेव प्रत्यक्षबाधितं, न तदानीं हेतोरुल्लखः । अथापि पक्षसाध्यायल्लेख श्वानुमितिस्थल एव। अनुमि तश्च हेतुशरणैव । हेतौ प्रतिष्ठिते सर्व प्रतिष्टेत, तस्मिन्नप्रतिष्ठिते न किञ्चित्प्रतिष्ठेत। केनचिद्धे गुना कुत्रचिदधिकरणे कस्यचित्साध्यस्य साधनेऽभिमते खलु तत्र भवता प्रत्यक्षबाधाद्युत्कीर्तनम् ! तादृशदोषोत्कीर्तने च स दोषः बाधितसाध्यकत्वादिरूपः स्पृशत्येव हेतुम् । अन्यथा खलु अयं सद्वेतुन्यपदेशाह एव स्यात्। न हि एतदपेक्षयाऽतिरिक्तः असिद्धयादिस्तत्र हेतौ वर्तते। अतः अबाधितमाध्यकत्वं सद्ध तोरावश्यकमेवेति ॥
पक्षस्यापीति। न हि बाधस्य दोषत्वं नास्तीति भवानप्यवोचत्, किन्तु पक्षस्यायं दोष इत्येव। तथा च पक्षे अबाधितत्वज्ञानं भवताऽपि संपादनीयम् । तथा च 'यश्चोभयो: समो दोष: तमेव त्वं ब्रीषि माम् । तत्त्वजिज्ञासु प्रत्याह-प्रयत्न इति । नान्यथेति। सर्वत्रैवं संशये पुरुषप्रवृत्तिरेव न स्यात्। अतश्च संशयात्मा विनश्यति' इति सत्यमुकम् ॥
। यत्तु बा-ख.