________________
आह्निकम् २। पक्षस्यावश्यकत्वसमर्थनम्
291 [पक्षानङ्गीकारे अनुमानोच्छेदः स्यात् ] ननु ! न पर्वतोऽग्निमत्तया निश्चितः; नापि तद्वैपरीत्येन । किन्तु सन्दिग्ध एवास्ते। यद्येवं सन्दिग्धेऽपि विपक्षे वर्तमानो धूमादिरहेतुरेव स्यात् । निश्चितविपक्षवृत्तिवत् सन्दिग्धविपक्षवृत्तरपि अहेतुत्वात् सर्वमनुमानमुत्सीदेत् । तस्मात् पक्षेण व्यभिचारचोदनमनुचितमिति व्यतिरेकवानेवायं हेतुः ॥
[बाधः न पक्षमात्रदोषः, किन्तु हेतोरपि] - यत्पुनरभिहितं - अनिराकृतपक्षवृत्तित्वमस्य नास्तीति - तत्सत्यम्-वयमप्यमुं पक्षं अध्यक्षबाधितमिच्छाम एव। 'स तु न पक्षमात्रपर्यवसितो बाधः, किन्तु हेतुमपि स्पृशति ॥
____ आस्तं इति। प्रकृते तु वह्निः उष्णत्वेन निश्चित इति शेषः । समाधत्ते यद्यवमिति। साध्यतदभाववत्त्वेन सन्दिग्धश्चेत् सः पक्षोऽपि भवितुमर्हति, तथा सन्दिग्धविपक्षोऽपि भवितुमर्हति । हेतोस्तद्वत्तित्वज्ञानं च-. "हेतुः किं साध्यवद्वत्ति: ? उत साध्याभाववद्वत्तिः' इत्येवंरूपं पर्यवस्यति । अयं च व्यभिचारसंशय एव । तथा चेदृशदोषस्य सर्वत्र संभवात अनुमानमेवोच्छियेतेति ॥
ननु पक्षे साध्यस्य सन्दिग्धत्वेऽपि न तस्य सन्दिग्धविपक्षत्वं संभवति, यत: सर्वमप्यनुमानमुच्छेद्येत । सन्दिग्धसाध्यवान् खलु पक्षः। स च संशयः सर्वत्र सुलभ एव। पक्षान्तर्भावेण व्यभिचारसंशय: साध्यसंशय एव पर्यवस्येत्। धूमः किं वह्निमत्पर्वते वर्तते? उत वह्वयभाववत्पर्वते ? इति संशये पर्वते वह्निसत्त्वे आद्यः पक्षः, वढेरसत्त्वे द्वितीयः पक्षः प्रत्यवतिष्टेत । तथा च पर्बतो वह्निमान? उतन? इत्याकारः पर्यवसन्नः । स च पक्षतारूप इति पक्षान्तर्भावेण व्यभिचारसंशयः गुण एव, न दोष इति चेत्, प्रकृतेऽपि इमं 'न्यायं पश्यतु भवानिति । पक्षण-पक्षान्तर्भावे ॥
अनिराकतेति । प्रत्यक्षाद्यबाधितेत्यर्थः । तथा च पक्षे साध्यः प्रत्यक्षबाधित:, न तु हेतुरिति बाधः न हेतुदोष इति भावः । सत्यं इत्यर्धाङ्गीकारे। अयं पक्षदोष इत्यभ्युपगच्छामः, हेतुदोषो न भवतीति तु नाभ्युपगच्छामः । पक्षनिष्ठोऽपि दोषः हेतुमपि दूषयेदेवेति । स तु बाधः इत्यन्वयः॥
1 यत्तु-क.
19*