________________
290 हेतुस्वरूपविचार:
न्यायमञ्जरी [पक्षः कश्चिदस्त्येव] तदयुक्तम्-अनुमागेच्छेदप्रसङ्गात् । अद्विरूपत्वेऽपि वस्तूनां निसर्गविषयीकृतः अर्थः कश्चित् पक्ष एषितव्यः। तदभावे तदपेक्षस्वरूपयोः सपक्षविपक्षयोरप्यभावः स्यात् । तदस्य पक्षस्य सतो 'वि'पक्षत्वमारोप्य यत्तेन व्यभिचारचोदनं तेनानधनुमानमपि विप्लवेत ॥
[पर्वते वह्नयनुमानस्य वह्नयनुष्णत्वानुमानस्य च वैलक्षण्यशङ्कापरिहारौ
ननु ! पर्वतादिर्धी न ज्वलनाख्यसाध्यधर्मशून्यतया तत्र निश्चितः। तेजोऽवयवी तु अनुष्णत्ववैपरीत्येन प्रत्यक्षतो निश्चित : इति-तस्किमिदानी पर्वतादिः अग्निमत्तया निश्चितः? तथाभ्युपगमे । वा किमनुमानेन ?
पपादनम्। अथापि नैषः तृतीयो राशिः; तत्काले तु प्रथमराशि:, तदभावकाले तु द्वितीयो राशिरिति कुत इष्टसिद्धिः। उभय नात्मकत्वं तु शशशृङ्गादिवत्तुष्छत्वे विश्राम्येतेति स्मर्तुमप्ययोग्यम् । तथा च द्वैराश्यमेव सुप्रतिष्ठितमिति पक्षो नाम कश्चिन्नास्त्येवेति ॥
अनुमानोच्छेदमेवोपादयति तदभाव इति । पक्षस्यैवाभाव इत्यर्थः । सपशेत्यादि। पक्ष पदृशः खलु सपक्षः, पक्षविरुद्धश्च विपक्षः। एतदुभयं पक्षस्यैवाभावे कथं प्रतितिष्ठेतेत्यर्थः। अग्नयनुमानमपीति। पर्वतो वह्निमान् धूमादित्यादावपि पक्षस्यैवाभावे तदनुमानमपि नावतिष्ठतेत्यर्थः ॥
ननु वढेरनुष्णत्वं प्रत्यक्षबाधित, पर्वते वह्निस्तु न तथेति वैलक्षण्यमस्त्येव । तथा चाद्यानुमानतौल्यं न वह्नयनुमानादीनामिति शङ्कते-- नन्विति । समाधत्ते-तत्किमिति। पर्वतो वह्निशून्यतया न निश्चित इति चेत् , तर्हि पर्वतो वह्निमत्वेन निश्चित इत्यायातम् । तथा च सिद्धसाधनम् इत्यर्थः। तथा--भग्निमत्वेन निश्चित इति ॥
1ऽपि स-ख.