________________
आह्निकम् २] पक्षस्यानावश्यकत्वाशङ्का
289 विधुतारकपरमाण्वनभ्युपगमे तु विपक्ष एव नास्तीति तदभावात् सुतरां तत्रावृत्तिर्भवतीति। न हि सपक्ष इव विपक्षे वृत्तिरिष्यते, येन यत्नतः तत्सिद्धये यतेत। अग्निरेव विपक्ष इति चेत्-मैवम्न हि पक्ष एव विपक्षो भवितुमर्हति ॥
[पक्ष इति कश्चन नास्त्येवेत्याक्षेपः] ननु ! वस्तूनामद्विरूपत्वात् पक्षो नाम परमार्थतो नास्त्येव । साध्यधर्माधिकरणभूतश्चेत् मोऽर्थः, तत्सपक्ष एव; विपर्यये तु न. विपक्षतामतिवर्तते । न च क्रमद्वययोगित्वं रूपद्वयरहितत्वं वा वस्तुनः समस्तीति ॥ . विध्वित्यादि। · अत्रेदमवधेयम् - यादृशपुरुषविशेषेणैतावता उष्णस्पर्श एवं नानुभूत: · तादृशेन पुरोवर्तिवह्निमधिकृत्यैवं प्रयोगे विपक्ष एव अप्रसिद्धः । परन्त्वस्मिन् प्रयोगे अनुष्णत्वं--स्पर्शगत जातिविशेष एव, न तूष्णत्वाभावरूपम् , उष्णस्पर्शस्यैव तेनाननुभूतत्वात् । यस्तु चन्द्रतारकादिषु परमाणो वा शास्त्राच्चोष्णस्पर्श निश्चिन्वन्नेव पुरोवर्तिभौमवह्निमधिकृत्य तथा प्रयुक्ते, तदा परमाण्वादिकमेव विपक्ष इति। ननु यदि विपक्ष एव नास्ति तर्हि विपक्षा. वृत्तित्वं वा कथं प्रसिद्धयेत् ?. इत्यत्राह-न हीति। दुष्टहेतुषु यत् प्रसिद्धं विपक्षवृत्तित्वं तदभावः प्रसिद्धयेदेवेति भावः। ननु अनुष्णत्वसाधने तदभाववानग्निरेव विपक्ष इति, तस्मात् व्यावृत्तिः हेतोः कृतकत्वस्य नास्तीति कथं व्यतिरेकः ? इत्यत्राह---अग्निरेवेति । व्याप्तिज्ञानकाले न तत्र तदभावनिर्णयसंभव इत्यनुपदमेवोक्तम् ॥
ननु लोके हि वस्तु कोटिद्वयान्तर्गतं, घटः--तद्भिन्नश्चेत्येवंरीत्या। तथा च प्रकृते वस्तुसामान्यं साध्यवद्वा भवेत् , साध्याभाववद्वा। एतदन्यतरकोटावेव सर्वमपि वस्त्वन्तर्भूतम्। तत्र साध्यवांश्चेत् सः सपक्ष एव, साध्याभावांश्चेत् स विपक्ष एव। को हि नामेदानी पक्षः तृतीयः परिशिष्यत इति शङ्कते -- नन्विति। ननु कश्चन साध्यवानेव, अन्यश्च साध्याभाववानेव, एभ्यस्तृतीय उभयवान् कश्चन कुतो न स्यादित्यत्रोक्तं-वस्तूनामद्विरूपत्वादिति। तत्-तस्मात्। तथा चोभयात्मकमेकं न स्यादिति तृतीयो राशि - स्त्येव। ननूभयात्मकत्वस्य विरोधेन तृतीयराश्यसंभवेऽपि उभयानात्मकत्येनैव एको राशिरस्तु ; अथवा कालभेदेन तत्तदभाववद्वस्त्वेको राशिरस्त्येवेति कथं राशिद्वयमेवेत्यत्राह-न चेति। भयं भाव:--अस्तु कालभेदेनोभयात्मकत्वो
NYAYAMANJARI
19