________________
288
हेतुस्वरूविचारः
न्यायमञ्जरी
सामान्येन च व्याप्तिहीता सती सिपाधयिषितधर्म्य'पेक्षया सैवान्तातिरुच्यते यैव च नगलग्नाम्यनुमानसमधे तद्यतिरिक्तकान्तारादिप्रदेशवर्तिनी बहियातिरभूत् सैव कालान्तरे कान्तारवर्तिनि वह्नावनुमीयमाने ऽन्तर्व्याप्तिरवतिष्टते। तदिहापि यत् कृतकं तदनुष्णमिति सामान्यतः परिच्छेदात् न तदानीमनलोन्मेष इति सिद्धोऽन्वयः॥
व्यतिरेकोऽपि कार्य तेजोऽवयविनि पक्षीकृते कृतकत्वस्य तेजःपरमाणुभ्यः॥
शङ्कायामाह-सामान्येनेति । अयं भावः--- यद्यपि व्याप्तिस्सामान्यत एव गृह्यते, अथापि ‘पर्वतो धूमवान्' इति पक्षधर्मताज्ञानानन्तरं खलु एंक- . सम्बन्धिज्ञानविधया व्याप्तिस्मरणं जायते। तथा च स्मरणकाले सामान्यतः स्मृताऽपि व्याप्ति: पक्षधर्मताज्ञानबलात् प्रकृतपक्षादिविषयिणी विश्राम्यतीति सैव विशेषव्याप्तिरूपाऽपि पर्यवस्यतीति अधिकरणविशेषे साध्यविशेषनिर्णयो भवत्येवेति । अन्तर्व्याप्ति:-सन्तरङ्गभूता व्याप्तिः -विशेषच्याप्तिरिति यावत् । वहिाप्तिः -- बहिरङ्गभूता व्याप्तिः---सामान्ययाप्तिरिति यावत् । तदानीं-सामान्यतो व्याप्तिग्रहकाले। अनलोन्मेषः - वह्नः प्रातिस्विकतयोपस्थितिः। तथा च व्याप्तिग्रहणकाल एव . वह्निविशेषाभानात प्रत्यक्षबाध: पूर्वोक्तरीत्या न वक्तुं शक्य इत्यर्थः ॥ . . .
'अन्वयपूर्वकत्वाच्च व्यतिरेकग्रहणस्य' इत्याद्यपाकरोति-व्यतिरेकोऽपीति। ‘कृतकत्वस्य व्यतिरेकोऽपि सिद्धः' इत्यन्दयः ॥
ननु नित्यस्य तेज:परमागोरुभयवादिसंप्रतिपन्नत्वे तत्र कृतकृत्वस्य व्यतिरका सिद्धयेत्, ये तु नित्यं परमाणु नाभ्युपगच्छन्ति वेदान्तिप्रभृतयः तेस्सह विवाद कः प्रतीकार इति चेत्, तर्हि चन्द्रे, तारकासु वा ज्योतिषु व्यतिरेको ग्रहीयते, शास्त्रत: तेषां तेजोगव्यत्वस्य निर्णीतत्वात्। अथ यदि बिधुतार कादयो न तेजांसि, अपि तु सहस्त्रकरणमरीचिनिफलनवादालोद नियुच्येत, तर्हि मा भवन्तु तानि तेजालि। अथापि न नो हानि: : तदा हि विपक्ष इति कश्चिदेव नास्तीत्युक्तं भवति। तथा च विपक्षावृत्तित्वं हेतोस्सिद्धर्भवेत्याह---
पेक्षायां-ख.