________________
• आह्निकम् २]
अव्यपदेश्यपदप्रयोजनम्
[अबाधितत्वं हेत्वङ्गमेव
अत्राभिधीयते यदुक्तं --अन्वयग्रहणं सर्वाक्षेपेणेति तद्रूहणवेलायामेव सिषाधयिषित धर्मविपर्ययाध्यासित हुतवहस्वरूपपरिस्फुरणादन्वयशून्योऽयं हेतुरिति-तदहृदयङ्गमम् । अन्वयः सत्यं सर्वाक्षेपेण गृह्यते, न पुनः एकैकधर्मिसमुल्लेखेन । एवं हि तदानन्त्यात् अन्वयो गृहीतुमेव न शक्येत । अनुमानस्य च वैफल्य मित्थं भवेत्, अग्नितां धूमवतां सर्वधर्माणां अन्वयावगमकाल एव गृहीतत्वात् ॥
287
धूमो हि यत्र यत्रेति सामान्येनैव गृह्यते । न पुनः पर्वतेऽरण्ये गृहे वेत्येवमिष्यते ॥ १५७ ॥ एवञ्च सत्याक्षेपवाचोयुक्तिरुपपन्ना भविष्यति । न चैवं सति वक्तव्यं षण्डानुनय मार्गणम् । न हि तद्वमित्येवं व्याप्तिग्रहणमिष्यते ॥ १५८ ॥
तदानन्त्यात्-- धर्मिणामानन्त्यात् ।
तद्गुहणं- अन्वयग्रहणम् । न शक्येतेति । वह्निधूमयोर्व्याप्तिर्हि - यो धूमवान् स वह्निमान् इति सामान्यत एव गृह्यते, न तु धूमवत् महानसं वह्निमत्, धूमवान् पर्वतो वह्निमान् इति प्रत्येकं धर्मिव्यक्तीनां भानपूर्वकम्, व्यक्तीनामानन्त्येन व्याप्तिग्रहणस्य दुर्लभत्वापत्तेः । एवं पर्वतादेः प्रातिविकत्वेन ग्रहणे तत्र - वह्निमत्ताया. तदैव सिद्ध्याऽनुमानवैयर्थ्यं च । किन्तु पर्वतादिकं व्याप्तौ सामान्यतः - धूमवस्येन वह्निमत्त्वेनैव च क्रोडीक्रियते । व्याप्तिर्हि साध्यसाधनयोरेव, न तत्राधिकरणव्यक्तिविशेषभान निर्बन्धः । एवञ्च प्रकृतेऽपि यद्यत् कृतकं तत्सर्वमनुष्णं दृष्टमिति व्याप्तौ न किञ्चिदपि बाधकमिति । इत्थं - भवदुक्तावेवानुमानवैयर्थ्य, नास्मदुत्तरीतावित्यर्थः ॥
एवञ्चेत्यादि । एवं सति चेत्यन्वयः । पक्षादीनां सामान्याकारेण व्याप्तौ भानेनैव सर्वाक्षेपेण व्याप्तिर्गृह्यत इत्युक्तिर्निरूढैवेति को दोषः इत्यर्थः । तद्वर्ज - पक्षवर्जम् ॥
ननु यद्यपि व्याप्तिः ग्रहणकाले पर्वतादिग्क्षवर्ज न गृह्यते । अथापि 'यो धूमवान् स वह्निमान्' इति सामान्यतो व्याप्तिग्रहणे कथं पर्वताद्यधिकरणविशेषे वह्निविशेषस्य सिद्धिस्तया व्याप्तथा वक्तुं शक्येत, तथाऽग्रहणादिति